________________
४।२५] चतुर्थोऽध्यायः
२४३ सारस्वतादित्यवह्नयरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥२५॥ क इमे सारस्वतादयः ?
पूर्वोत्तरादिषु दिक्षु यथाक्रमं सारस्वतादयः ।। पूर्वोत्तरादिषुर अष्टासु अपि दिक्षु यथाक्रममते सारस्वतादयो देवगणा वेदितव्याः। तद्यथा अरुणसमुद्रप्रभवः मूले संख्येययोजनविस्तारः तमस्कन्धः समुद्रवद्वलयाकारः अतितीव्रान्धकारपरिणामः, स ऊर्ध्व क्रमवृद्धया गच्छन् मध्येऽन्ते च संख्येययोजनबाहल्यः 'अरिष्टविमानस्याधोभागे समेतः कुक्कुटकुटीवदवस्थितः । तस्योपरि तमोराजयोऽष्टावुत्पत्य अरिष्टेन्द्रकविमानसप्रणिधयः । तत्र चतसृष्वपि दिक्ष द्वन्द्वं गताः तिर्यगालोकान्तात्, तदन्तरेषु सारस्वतादयो ज्ञेयाः । तत्र पूर्वोत्तरकोणे सारस्वतविमानम्, पूर्वस्यां दिशि आदित्यविमानम्, पूर्वदक्षिणस्यां वह्निविमानम्, दक्षिणस्यामरुणविमानम्, दक्षिणापरकोणे गर्दतोयविमानम्, "अपरस्यां दिशि तुषितविमानम्, उत्तरापरस्या- १० मव्याबाधविमानम्, उत्तरस्यामरिष्टविमानम् ।
चशब्दसमुच्चिताः तदन्तरालवतिनः ।२॥ तेषामन्तरालेषु चशब्दसमुच्चिता द्वन्द्ववृत्त्या देवगणाः प्रत्येतव्याः । तद्यथा--
__अग्न्याभसूर्याभचन्द्राभसत्याभश्रेयस्करक्षेमडकर वृषभेष्टकामचरनिर्माणरजोदिगन्तरक्षितात्मरक्षितसर्वरक्षितमरुद्वस्वश्वविश्वाख्याः।३। एते अग्न्याभादयः षोडश देवगणा १५ लौकान्तिकभेदाः कथ्यन्ते । सारस्वतादित्यान्तर अग्न्याभसूर्याभा:, आदित्यवह्नयन्तरे चन्द्राभसत्याभाः, वह्नचरुणान्तराले श्रेयस्करक्षेमङकराः, अरुणगर्दतोयान्तराले वषभेष्टकामचराः, गर्दतोयतुषितमध्ये निर्माण रजोदिगन्तरक्षिताः, तुषिताव्याबाधमध्ये आत्मरक्षितसर्वरक्षिताः, अव्याबाधारिष्टान्तरे मरुद्वस्वः, अरिष्टसारस्वतान्तरे अश्वविश्वाः। तान्येतानि विमाननामानि तन्निवासिनां च तद्योगात्। तत्र सारस्वताः सप्तशतसंख्याः। आदित्याश्च २० सप्तशतगणनाः । वह्नयः सप्तसहस्राणि सप्ताधिकानि। अरुणाश्च तावन्त एव । गर्दतोया नवसहस्राणि नवोत्तराणि । तुषिताश्च तावन्त एव । अव्याबाधा एकादशसहस्राणि एकादशानि । अरिष्टा अपि तावन्त एव। चशब्दसमुच्चितानां संख्येत्युच्यते-अग्न्याभे देवाः .सप्तसहस्राणि सप्ताधिकानि । “सूर्याभेऽमरा नक्सहस्राणि नवोत्तराणि । चन्द्राभे सुराः एकादशसहस्राणि एकादशानि । सत्याभे विबुधाः त्रयोदशसहस्राणि त्रयोदशानि। श्रेयस्करे देवाः २५ पञ्चदशसहस्राणि पञ्चदशानि' । क्षेमङ्करे अमराः सप्तदशसहस्राणि सप्तदशानि । “वृषभेष्टे सुराः एकान्नविंशतिसहस्राणि एकान्नविंशतिश्च । कामचरेऽमराः एकविंशतिसहस्राणि एकविंशतिश्च । निर्माणरजसि देवाः त्रयोविंशतिसहस्राणि त्रयोविंशतिश्च । दिगन्तरक्षिते देवाः पञ्चविंशतिसहस्राणि पञ्चविंशतिश्च । आत्मरक्षिते सुराः सप्तविंशतिसहस्राणि सप्तविंशतिश्च । सर्वरक्षिते विबुधा एकान्नत्रिंशत्सहस्राणि एकान्नत्रिशच्च । मरुति देवाः ३०
१ ईशानादिष । २-द्रभवः प्रा०, ब, द०, मु०। प्राणवरदीवबाहिरजगदीवो जिणवल्ससंखाणि। गंतुण जोयणाणि अरुणसमहस्स पणिधीए॥ ३ प्रथमेन्द्रक। ४ अपरस्यां तुषितविमानमयरोत्तरकोणेऽव्या- प्रा०, २०, २०, मु०। ५ वृषभोष्टकाम- ता०। वृषभोऽष्टकाम-श्र०, मू० । वृषभकाम-०।-कामकराः भा० २। ६-न्तराले मरु- प्रा०, ब०, २०, मु०। कुतः । ८ सूर्याभे सुरा नवसहस्राणि नवाधिकानि प्रा०, ब०, २०, मु०। ९-दशाधिकानि प्रा०, ०, २०, मु० । १० वृषभोष्ट्र ता० । वृषभोऽश्वे मू०, ०। षभे २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org