________________
५
१०
१५
२०
२५
३०
तत्त्वार्थवार्तिके
[ ४२६
एकत्रिंशत्सहस्राणि एकत्रिंशच्च । वसुनि सुराः त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्च । अश्वे सुराः पञ्चत्रिंशत्सहस्राणि पञ्चत्रिंशच्च । विश्वे देवाः सप्तत्रिंशत्सहस्राणि सप्तत्रिंशच्च । त एते चतुर्विंशतिलौकान्तिकगणाः समुदिताः चत्वारिंशत्सहस्राणि अष्टसप्ततिश्च शतानि षडुतराणि । सर्वे ते स्वतन्त्रा हीनाधिकत्वाभावात्, विषयरतिविरहाद् देवर्षयः, तत इतरेषां देवानामर्चनीयाः, चर्तुदशपूर्वधराः सततं ज्ञानभावनावहितमनसः, संसारान्नित्यमुद्विग्नाः अनित्याशरणाद्यनुप्रेक्षासमाहितमानसाः, अतिविशुद्धसम्यग्दर्शनाः, तीर्थंकर निष्क्रमणप्रतिबोधनपराः । नामकर्मणोऽसंख्योत्तरोत्तरप्रकृतित्वात् संसारिणां जीवानां संज्ञाः शुभाशुभनामकर्मोदयापादिताः वेदितव्याः ।
२४४
,
rani कार्मणशरीरप्रणालिकया आस्रवापेक्षयापादितसुखदुःखानां भव्याभव्यभेदाहितद्वैविध्यानां प्राणिनां संसारोऽनादिः अपर्यवसानः । अन्येषां मोहोपशमप्रध्वंसनं प्रत्यादृतानां अप्रतिपतितसम्यग्दर्शनानां परीतविषयः, सप्ताष्टानि भवग्रहणानि उत्कर्षेण वर्तन्ते, जघन्येन द्वित्राणि अनुबन्ध्यच्छिद्यन्ते । प्रतिपतितसम्यक्त्वानां तु भाज्यम् ।
आह- अप्रतिपतितसम्यक्त्वेषु किमविशेष एव आहोस्वित् कश्चिदस्ति प्रतिविशेषः इति ? अत्रोच्यते
विजयादिषु द्विरमाः ||२६||
विजयादिषु इति आदिशब्दः प्रकारार्थः | १| अयम् आदिशब्दः प्रकारार्थो द्रष्टव्यः । तेन विजयवैजयन्तजयन्तापराजिताऽनुदिशविमानानामिष्टानां ग्रहणं सिद्धं भवति । कः पुनरत्र प्रकारार्थः ? अहमिन्द्रत्वे सति सम्यग्दृष्ट्युपपादः । सर्वार्थसिद्धग्रहणप्रसङ्ग इति चेत्; न; तेषां परमोत्कृष्टत्वात्, सर्वार्थसिद्ध इत्यन्वर्थनिर्देशात् एकचरमत्वसिद्धेश्च ।
द्विचरमत्वं मनुष्यदेह यापेक्षम् ॥२॥ चरमशब्द उक्तार्थः । द्वौ चरमो देहो येषां ते द्विचरमाः, भावद्विचत्वम् । एतन्मनुष्यदेहद्वयापेक्ष मवगन्तव्यम् । विजयादिभ्यः च्युता अप्रतिपतितसम्यक्त्वा मनुष्येषूत्पद्य संयममाराध्य पुनर्वजयादिषूत्पद्य च्युता मनुष्यभवमवाप्य सिध्यन्ति इति द्विचरमदेहत्वम्, इतरथा हि द्वौ मनुष्यभवी एको देवभवश्चेति त्रिचरमत्वं स्यात् न द्विचरमत्वम् । कुतः पुनः मनुष्यदेहस्य चरमत्वमिति चेत् ? उच्यते
मनुष्यदेहस्थ चरमत्वं तेनैव मुक्तिपरिणामोपपत्तेः । ३ । यतो मनुष्यभवमवाप्य देवनारकतैर्यग्योनाः सिध्यन्ति न तेभ्य एवेति मनुष्यदेहस्य चरमत्वम् ।
एकस्य चरमत्वमिति चेत्; न; औपचारिकत्वात् |४| स्यान्मतम् - एकस्य भवस्य चरमत्वम् अन्त्यत्वात्, न द्वयोस्ततो द्विचरमत्वमयुक्तमिति; तन्न; किं कारणम् ? औपचारिकत्वात् । येन देहेन साक्षान्मोक्षोऽवाप्यते स मुख्यश्चरमः, तस्य प्रत्यासन्नो मनुष्यभवः तत्प्रत्यासत्तेश्चरम इत्युपचर्यते । देवभवेन व्यवहितत्वात् प्रत्यासत्त्यभाव इति चेत्; न; *"येन 'नाव्यवधानं तेन व्यवहितेऽपि 'वचनप्रामाण्यात्" ] इति ।
आर्षविरोध इति चेत्; न; प्रश्नविशेषापेक्षत्वात् |५| स्यान्मतम् - विजयादिषु द्विरमत्वमार्षविरोधि । कुतः ? त्रिचरमत्वात् । एवं ह्यार्षे उक्तमन्तरविधाने - " अनुदिशानुतरविवजयवैजयन्तजयन्तापराजितविमानवासिनामन्तरं जघन्येन वर्षपुथक्त्वम् उत्कर्षेण द्वे साग
१ चत्वारिंशत्सह- श्रा०, ब०, मु० । २ वेदक सम्यक्त्वापेक्षया । ३ वा व्य- मू० । श्रवश्यव्यवधानम् । ४ कृतः ? सूत्रकारस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org