________________
४।२७] चतुर्थोऽध्यायः
२४५ रोपमे सातिरेके"[षट्ख० ] इति । तस्यायमर्थः-तेभ्यः च्युता मनुष्येषूत्पद्य अष्टवर्षाः संयममाराध्य अन्तर्मुहूर्तेन विजयादिषु भवमाप्नुवन्ति इति जघन्येन वर्षपृथक्त्वम् । केचित्तेभ्यश्च्युता मनुष्येषूत्पद्य संयममवाप्य सौधर्मशानकल्पयो: जनित्वा पुनरपि मनुष्यभवमनुभूय विजयादिषु जायन्ते इति उत्कर्षेण द्वे सागरोपमे साधिके इति, ततो मनुष्यभवत्रयोपपत्तेद्विचरमत्वमयुक्तमिति ; तन्न; किं कारणम् ? प्रश्नविशेषापेक्षत्वात् । एवं हि व्याख्याप्रज्ञप्तिदण्डकेषूक्तम्- ५ विजयादिषु देवा मनुष्यभवमास्कन्दन्तः कियतीर्गत्यागती: विजयादिषु कुर्वन्ति इति गौतमप्रश्ने भगवत्तोक्तं जघन्येनको भवः आगत्या उत्कर्षेण गत्यागतिभ्यां द्वौ भवी । सर्वार्थसिद्धाः' च्युता 'मनुष्येषूत्पद्य तेनैव भवेन सिध्यन्तीति, न लौकान्तिकवदेकभविका एवेति विजयादिषु द्विचरमत्वं नार्षविरोधि, कल्पान्तरोत्पत्त्यनपेक्षत्वात् प्रश्नस्येति ।
आह-उक्तं भवता जीवस्य औदयिकेषु भावेषु तैर्यग्योनिगतिरोदयिकीति, स्थिती- १० चोक्तम् "तिर्यग्योनिजानां च" [त. सू० ३।३९] इति । आस्रवविधाने च वक्ष्यते "माया तैर्यग्योनस्य" [त० सू० ६।१६] इति । तद्वक्तव्यं के तिर्यग्योनय इति ? अत्रोच्यते
औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥२७॥ अयुक्तोऽयं निर्देश: 'औपपादिकमनुष्येभ्यः' इति । कुतः ? मनुष्यशब्दस्य अल्पान्तरत्वात् पूर्वनिपात प्राप्त्यर्हत्वात् ; नैष दोषः; अभ्यहितत्वात् औपपादिकशब्दस्य पूर्वनिपातः । १५ कथमहितत्वम् ? देवानामौपपादिकेष्वन्तर्भावात्, देवा हि स्थितिप्रभावादिभिरभ्यहिता इति व्याख्याताः।
उक्तभ्य औपपादिकमनुष्येभ्योऽन्ये शेषाः।। औपपादिका उक्ता देवनारकाः, मनुष्याश्च व्याख्याताः "प्राङ मानुषोत्तरान्मनुष्याः" [त. सू० ३।३५] इति । तेभ्योऽन्ये ये ते शेषाः तिर्यग्योनयः।
सिद्धप्रसङग इति चेत्, न; सांसारिकप्रकरणात् ।२। स्यान्मतम्-औपपादिकमनुष्येभ्योऽन्यत्वं सिद्धानामप्यस्ति इति तिर्यग्योनित्वप्रसङ्ग इति; तन्न; किं कारणम् ? सांसारिकप्रकरणात् । संसारिण: प्रकृताः, तेन तेभ्योऽन्ये संसारिण एव तिर्यग्योनयो न सिद्धाः । अथ केयं तिर्यग्योनिः ?
तिरोभावात् तैर्यग्योनिः ।। तिरोभावो न्यग्भावः उपबाह्यत्वमित्यर्थः, ततः कर्मोदया- २५ पादितभावा तिर्यग्योनिरित्याख्यायते। तिरश्चि योनिर्येषां ते तिर्यग्योनयः। ते च । त्रसस्थावरादिविकल्पा व्याख्याताः ।
देवादिवत्तदाधार निर्देश इति चेत् न; सर्वलोकव्यापित्वात् ।४। स्यान्मतम्-यथा देवानामूर्ध्वलोकः, मनुष्याणां तिर्यग्लोकः, नारकाणामधोलोक आधारविशेष उक्तः तथा तिर
१ "अणुदिस जाव प्रवरा-इदविमाणवासियदेवाणमंतर केवचिरं कालादो होदि ? जहणेणं वासपुधत्तं। उक्कस्सेण बे सागरोवमाणि साबिरेयाणि।" -षटखं० खुहा० २।३।३०-३२ । २ वर्षान् सं० प्रा०, ब०, ९०, म०। ३ "विजयवेजयंतजयंतप्रवराजिय देवाणं भंते, जे भविए मणुस्सेस उववज्जित्तए से णं भंते केवति० (उ०)....भवावेसेणं जहन्नणं दो भवग्गहणाई उक्कस्सेणं चत्तारि भवग्गहणाई..'सम्वसिद्धदेवाणं भंते "भवादेसेणं दो भवग्गहणाई..."-भग० सू० २४।२२।१६१७.४ सर्वार्थसिद्धीच्य-प्रा०, ब०, म०। ५मनुष्यभवेषुत्प-०६-तःप्राप्नोति अभ्यहितत्वान्नष बोषः प्रौपपादिकस्य प्रा०, ब०, म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org