________________
सूक्ष्मबादरभेदात् ।५ । तिर्यञ्चो द्विविधाः सूक्ष्मा बादराश्चेति सूक्ष्मबादरनामक५ मदियापादितभावाः । तत्र सूक्ष्माः पृथिव्यप्तेजोवायु वनस्पतयः सर्वलोकव्यापिनः । बादराः पृथिव्यप्तेजोवायुवनस्पतयः विकलेन्द्रियाः पचेन्द्रियाश्च ववचिदेव वर्तन्ते न सर्वत्र ।
१०
१५
२४६
तस्वार्थवार्तिके
[ ४२८-३०
चामपि आधारो विशिष्टो निर्देष्टव्य इति; तन्न; किं कारणम् ? सर्वलोकव्यापित्वात् ' ते हि तिर्यञ्चः सर्वान् लोकान् व्याप्य वर्तन्ते इति । कुतः पुनः सर्वलोकव्यापित्वमेषा'मिति चेत् ? उच्यते
२५
आद्य 'देवनिकायस्थित्यभिधानानन्तरं व्यन्तरज्योतिष्क स्थितिवचने क्रमप्राप्ते सति २० तदुल्लङ्घ्य वैमानिकानां स्थितिरुच्यते । कुतः ? तयोरुत्तरत्र लघुनोपायेन स्थिति वचनात् । तेषु च आदावुद्दिष्टयोः कल्पयोः स्थितिविधानार्थमाह
३०
द्वितीयेऽध्यायेतनिर्देश इति चेत्; न; कृत्स्नलोकभावात् । ६ । स्यादेतत्-द्वितीयेऽध्याये एषां तिरश्चां निर्देशः कर्तव्यः नात्रेति; तन्न; किं कारणम् ? कृत्स्नलोकभावादयमेव निर्देश युक्तः, सर्वाल्लोकानुक्त्वा तदाधारनिर्देशः सुगम इति ।
शेषसंप्रतिपत्तेश्च ॥७॥ नारकादीन् सर्वानुक्त्वा तेभ्योऽन्ये शेषास्तिर्यञ्च इति शेषसंप्रतिपत्तिश्च भवति इति इहैव तन्निर्देशो युक्तः ।
स्थितिरिदानीं वक्तव्या । सा नारकाणां मनुष्याणां तिरश्चां चोक्ता, देवानामुच्यते । तत्र 'चादावुद्दिष्टानां भवनवासिनां स्थितिप्रतिपादनार्थमाहस्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्धहीन मिता ||२८||
असुरादीनां सागरोपमादिभिरभिसंबंधो यथाक्रमम् |१| असुरादीनां सागरोपमादिभियथाक्रममभिसंबन्धो वेदितव्यः । इयं स्थितिरुत्कृष्टा । जघन्याप्युत्तरत्र वक्ष्यते । तद्यथाअसुराणां सागरोपमा स्थितिः, नागानां त्रीणि पल्योपमानि सुपर्णानाम् अर्धतृतीयानि', द्वीपानां द्वे, शेषाणां षण्णाम् अध्यर्धपल्योपमम् ।
सौधर्मेशानयोः सागरोपमेऽधिके ॥२६॥
द्विवचननिर्देशाद् द्वित्वगतिः | १ | सागरोपमे इति द्विवचननिर्देशाद् द्वे सागरोपमे इति गम्यते ।
अधिके इत्यधिकार आ सहस्रारात् |२| अधिके इत्ययं अधिकारो द्रष्टव्यः । आ कुतः ? आ सहस्रारात् । तेन सौधर्मेशानयोर्देवानामुत्कृष्टा स्थितिः द्वे ' सागरोपमे सातिरेके
प्रत्येतव्ये ।
उत्तरयोः स्थितिविशेषप्रतिपत्त्यर्थमाह
सानत्कुमारमाहेन्द्रयोः सप्त ||३०||
अधिकारात् सागराधिकसंप्रत्ययः | १| सागरग्रहणम् अधिकग्रहणं च अनुवर्तते । तेनायमर्थो लभ्यते - सानत्कुमार माहेन्द्र योर्देवानामुत्कृष्टा स्थितिः सप्तसागरोपमाणि साधिकानि इति ।
ब्रह्मलोकादिष्वच्युतावसानेषु' स्थितिविशेषप्रतिपत्माह
१ - त् सर्वलोकव्यापित्वं कथमेषामि - प्रा०, ब० प० । २ चादौ निर्दिष्टा- प्रा०, ब०, मु० । ३ म्रपत्यय प्रमितेत्यर्थः । ४ आदिवे- प्रा०, ब०, मु० । ५ - च्युतान्तेषु प्रा०, ब०, ब०, मु०, ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org