________________
२४७
४॥३१-३३]
चतुर्थोऽध्यायः त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥३१॥
सप्तग्रहणस्य त्र्यादिभिरभिसंबन्धः द्वयोद्वयोः ।। सप्तग्रहणं प्रकृतम्, तस्येह निर्दिष्टः त्र्यादिभिरभिसंबन्धो द्रष्टव्यः । सप्त त्रिभिरधिकानि, सप्त सप्तभिरधिकानीत्यादि।
तुशब्दो विशेषणार्थः ॥२॥ तुशब्दो विशेषणार्थो द्रष्टव्यः । किं विशिनष्टि ? अधिकशब्दोऽनवर्तमानः चभिरिह संबध्यते नोत्तराभ्यामित्ययमर्थो विशेष्यते । तेनायमर्थो भवति- ५ ब्रह्मलोकब्रह्मोत्तरयो: दशसागरोपमाणि साधिकानि । लान्तवकापिष्टयोश्चतुर्दशसाग रोपमाणि साधिकानि। शक्रमहाशक्रयोः षोडशसागरोपमाणि साधिकानि। शतारसहस्रारयोरष्टादशसागरोपमाणि साधिकानि । आनत प्राणतयोविंशतिः सागरोपमाणि । आरणाच्युतयोाविंशतिः सागरोपमाणि उत्कृष्टा स्थितिरिति । ननु च तुशब्दोऽनर्थक: 'अधिके' इत्यधिकारे आसहस्रारादित्युक्तत्वात् ? न, अतस्तत्सिद्धेः । तत 'ऊर्ध्व स्थितिविशेषप्रतिपत्यर्थमाहआरणाच्युतादूर्ध्वमेकैकेन नवसु अवेयकेषु विजयादिषु
सर्वार्थसिद्धे च ॥३२॥ अधिकारादधिकसंबन्धः ।। अधिकग्रहणमनुवर्तते तेनेह संबन्धो वेदितव्यः-एककेनाऽधिकानीति । किमर्थ नवसु वेयकेषु विजयादिष्विति पृथग् ग्रहणम् ?
ग्रेवेयकेभ्यो विजयादीनां पृथग्ग्रहणमनुदिशसंग्रहार्थम् ।२। अवेयकविजयादिष्वित्युच्यमाने अनुदिशविमानानामसंग्रहः स्यात्, ततस्तत्संग्रहार्य पृथग्ग्रहणं क्रियते ।
प्रत्येकमेकैकवृद्धयभिसंबन्धार्थ नवग्रहणम् ।३। ग्रेवेयकेष्वित्युच्यमाने यथा विजयादिषु सर्वेषु एकमेव सागरोपममधिकं तथा सर्वेषु ग्रैवेयकेषु एकमेव सागरोपममधिकमिति प्रतीयेत तस्मान्नवग्रहणं क्रियते । नवसु प्रत्येकमेकैकस्य सागरोपमस्य आधिक्यं यथा स्यादिति । २० अथ सर्वार्थसिद्धस्य पृथग्ग्रहणं किमर्थम् ?
सर्वार्थसिद्धस्य पृथगग्रहणं विकल्पनिवृत्त्यर्थम् ।३। यथाऽधस्ताज्जघन्योत्कर्षस्थितिविकल्पतथा सर्वार्थसिद्धे माभूत् इत्येवमर्थ पृथग ग्रहणं क्रियते। तेनायमर्थो वेदितव्यः-अधोवेयकेषु प्रथमे त्रयोविंशतिसागरोपमाणि । द्वितीये चतुर्विंशतिसागरोपमाणि । तृतीये पञ्चविंशतिसागरोपमाणि। मध्यमवेयकेषु प्रथमे षड्विंशतिसागरोपमाणि, द्वितीये सप्तविंशतिः', तृतीये २५ अष्टाविंशतिः । उपरिमवेयकेषु प्रथमे एकानविंशत्, द्वितीये त्रिंशत्, तृतीये एकत्रिंशत् । अनुदिशविमानेषु द्वात्रिंशत् । विजयादिषु त्रयस्त्रिंशत् सागरोपमाणि उत्कृष्टा स्थितिः । सर्वार्थसिद्ध त्रयस्त्रिशदेवेति । ___ अत्राह मनुष्यतिर्यग्योनिजानां परापरस्थिती व्याख्यायते, देवानां किं उत्कृष्टैव न वेति ? उच्यते
अपरा पल्योपममधिकम् ॥३३॥ ____ अपरा जघन्येत्यर्थः। स्थितिरित्यनुवर्तते । व्याख्यातपरिमाणपल्योपमम् । केषाम् ? देवानामियं जघन्या स्थितिः ? सौधमै शानयोर्देवानाम् । कथं गम्यते ?
१ अवें प० । २ -सिौ च प्रा०, २०, २०, मु०, ता०। ३ -तिः सागरोपमाणित-मा०, ब०,०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org