________________
२४८ तत्त्वार्थवार्तिके
[४॥३४-३६ पारिशेष्यात्सौधमै शानयोरपरा स्थितिः ।। भवनवास्यादीनां जघन्या स्थितिर्वक्ष्यत । सानत्कुमारादीनां च परतः परतः पूर्वा पूर्वाऽनन्तरा इति । ततः परिशेषात् सौधर्मेशानयोर्देवानां साधिकं पल्योपमं जघन्या स्थितिवेदितव्या । तत ऊर्ध्व जघन्यस्थितिप्रतिपादनार्थमाह
परतः परतः पूर्वा पूर्वानन्तरा ॥३४॥ परस्मिन् देशे परतः, तस्य वीप्सायां द्वित्वम् । पूर्वशब्दस्यापि । किमुक्तं भवति-पूर्वा पूर्वा या स्थितिरुत्कृष्टोक्ता सा सा उपरि उपरि देवानां जघन्येत्येतदुक्तं भवति। किमविशेषेण ? नेत्याह। ___ अधिकग्रहणानुवृत्तः सातिरकसंप्रत्ययः।१। अधिकग्रहणमनुवर्तते ? क्व प्रकृतम् ?
'अपरा पल्योपममधिकम्' इत्यत्र, सातिरेकसंप्रत्ययो भवति । सौधमै शानयोः परा स्थितिः द्वे सागरोपमे साधिके । ते सानत्कुमारमाहेन्द्रयोः सातिरेके जघन्या स्थितिः । सानत्कुमारमाहेन्द्रयोः परा स्थितिः सप्तसागरोपमाणि साधिकानि । तानि सातिरेकाणि ब्रह्मलोकब्रह्मोत्तरयोजघन्या स्थितिरित्यादि । आ कुतोऽयमधिकारः ?
आ विजयादिभ्योऽधिकारः ।२। आ विजयादिभ्योऽनुत्तरेभ्यः अयमधिकारो वेदितव्यः । १५ कथं गम्यते ? 'सर्वार्थसिद्धस्य पृथग् ग्रहणात्' इत्युक्तं पुरस्तात् ।।
___अनन्तरेत्यवचनं पूर्वोक्तेरिति चेत् ; न ; व्यवहिते पूर्वशब्दप्रयोगात् ।। स्यान्मतम्, पूर्वेति वचनात् आनन्तर्यप्रतीतेः अनन्तरेति वचनमनर्थकमिति ; तन्न ; किं कारणम् ? व्यवहितेऽपि पूर्वशब्दप्रयोगात् । अयं हि पूर्वशब्द: व्यवहितेऽपि प्रयुज्यते । तद्यथा-पूर्व मथुरायाः पाटलिपुत्र
मिति । ततः सोधर्मेशानयोः या परा स्थितिः सा ब्रह्मलोकब्रह्मोत्तरलोकयोर्जघन्या स्थिति२० रित्येवमाद्यनिष्टं प्रतीयेत ततोऽनन्तरमुच्यते ।
नारकाणामुत्कृष्टा स्थितिरुक्ता, जघन्या सूत्रेऽनुक्ता, तामप्रकृतामपि लघुनोपायेन प्रतिपादयितुमिच्छन्नाह
नारकाणां च द्वितीयादिषु ॥३५॥ चशब्दः किमर्थः ?
चशब्दः प्रकृतसमुच्चयार्थः ।। चशब्दः क्रियते प्रकृतसमुच्चयार्थः। किं प्रकृतम् ? परतः परतः पूर्वा पूर्वाऽनन्तरा अपरा स्थितिरिति । तेनायमर्थो लभ्यते-रत्नप्रभायां नारकाणां परा स्थितिरेकं सागरोपमं सा शर्कराप्रभायां जघन्या। शर्कराप्रभायामुत्कृष्टा स्थितिः त्रीणि सागरोपमाणि, सा बालुकाप्रभायां जघन्येत्येवमादि । तव्यासो व्याख्यातः पुरस्तात् । . अथ प्रथमायां पृथिव्यां का जघन्या स्थितिरिति ? अत आह
दशवर्षसहस्राणि प्रथमायाम् ॥३६॥ अपरा स्थितिरित्यनुवर्तते । अथ भवनवासिनां का जघन्या स्थितिरिति ? अत आह
१ सातिरेके सं-१०। २ प्रतः प्रा०, ब०, २०, मु०। ३ उत्कृष्टा स्थितिः। ४ रत्नप्रभायां पशवर्षसहयाणि अपरा स्थितिवितव्या ।
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org