SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ४१३७-४१] चतुर्थोऽध्यायः २४६ भवनेषु च ॥३७॥ चशब्दः किमर्थः ? प्रकृतसमुच्चयार्थ इति । एवं तेन भवनवासिनामपरा स्थितिर्दशवर्षसहस्राणि इत्यभिसंबध्यते । व्यन्तराणां तर्हि का जघन्या स्थितिरिति ? अत आह व्यन्तराणां च ॥३८॥ चशब्द: प्रकृतसमुच्चयार्थ इति, एवं तेन व्यन्तराणामपरा स्थितिः दशवर्षसहस्राणि इत्यवगम्यते। परा व्यन्तराणा प्रागभिधातव्येति चेत्, न; लाघवार्थत्वात् ॥१॥ स्यादेतत्-यथा अन्येषां देवनिकायानां परा स्थितिः प्रागुक्ता तथा व्यन्तराणामपि परा प्रागभिधातव्या इति? तन्न ; किं कारणम् ? लाघवार्थत्वात् । यदि परा स्थितिः प्रागुच्येत पुनः दशवर्षसहस्रग्रहणं १० क्रियेत, तथा सति गौरवं स्यात् । यद्येवम्, अमीषां का परा स्थितिरिति ? अत आह- . परा पल्योपममधिकम् ॥३६॥ स्थित्यभिसंबन्धात् स्त्रीलिङगनिर्देशः ॥१॥ स्थितिरित्यनुवर्तते । तेनाभिसंबन्धात् परेति स्त्रीलिङ्गनिर्देशो द्रष्टव्यः । इदानीं ज्योतिष्काणां परा स्थितिर्वक्तव्येति, अत आह ज्योतिष्काणां च ॥४॥ चशब्दः प्रकृतसमुच्चयार्थ इति, एवं तेनैवमभिसंबध्यते-ज्योतिष्काणां च परा स्थितिः पल्योपममधिकमिति । अथापरा ज्योतिष्काणां कियती स्थितिरिति ? अत आह तदष्टभागोऽपरा ॥४१॥ तस्य पल्योपमस्याष्टभागो ज्योतिष्काणामपरा स्थितिरित्यर्थः । अत्राह-'ज्योतिष्काणां पल्योपममधिकं परा स्थितिः' इत्यविशेषाभिधाने न ज्ञायते चन्द्रादीनां कि स्थितिविशेष इति ? अत्रोच्यते चन्द्राणो वर्षशतसहसाधिकम् ॥१॥ चन्द्राणां वर्षशतसहस्राधिकं पल्योपमं परा स्थितिः। .. सूर्याणां वर्षसहसाधिकम् ।२। वर्षसहस्राधिकं पल्योपमं सूर्याणां परा स्थितिः । शुक्राणां शताधिकम् ।३। शुक्राणां वर्षशताधिक पल्योपमं परा स्थितिः । बृहस्पतीना पूर्णम् ।४। बृहस्पतीनां पूर्णपल्योपमं परा स्थितिः, 'नाधिकम् । शेषाणामर्षम् ।५। शेषाणां ग्रहाणां बुधादीनां पल्योपमस्या परा स्थितिः । नक्षत्राणाच'।६। किम् ? अर्धपल्योपमं परा स्थितिः । तारकाणा चतुर्भागः ।। पल्योपमस्य चतुर्भागस्तारकाणां परा स्थितिः । १ एतेन मु० । २ -रित्याह श्र०, मू० । ३ साधिकम् प्रा०, ब०, २०, मु०। ४ च नक्षत्राणामर्षमा०, ब०, २०, मु०। ३२ 70 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy