________________
२५० तत्त्वार्थवार्तिके
કાકરે तदष्टभागो जघन्योभयेषाम् ।। तस्य पल्योपमस्याष्टभागः जघन्या स्थिति: उभयेषां तारकाणां नक्षत्राणां च भवति ।
शेषाणां चतुर्भागः ।९। शेषाणां सूर्यादीनां पल्योपमस्य चतुर्भागो जघन्या स्थितिर्वेदितव्या । अथ लौकान्तिकदेवानां का स्थितिरिति ? अत्रोच्यते
लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥४२॥ अष्टसागरोपमस्थितयो लौकान्तिकाः ।। एकैव लोकान्तिकानां स्थितिः । 'काऽसौ ? अष्टौ सागरोपमाणि। सर्वे ते शुक्ललेश्याः पञ्चहस्तोत्सेधशरीराः ।
व्याख्यातो जीवः ।२। सम्यग्दर्शनस्य विषयप्रदर्शनमुखेनोपन्यस्तेषु जीवादिषु आद्यो १० जीवपदार्थो व्याख्यातः।
स च एकोऽनेकात्मकः ।। स जीव एकः अनेकात्मको भवति । कुत एकस्यानेकात्मकत्वमिति चेत् ? अत्रोच्यते
अभावविलक्षणत्वात् ।४। अभूतं नास्तीत्येकरूपोऽभावः । न हि अभावः अभावात्मना भिद्यते । तद्विसदृशस्तु नानारूपो भावः, इतरथा हि तयोरविशेष एव स्यात् । स तु षोढा भिद्यते-जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यतीति । तत्र उभयनिमित्तवशादात्मलाभमापद्यमानो भावः जायत इत्यस्य विषयः । यथा मनुष्यगत्यादिनामकर्मोदयापेक्षया आत्मा मनुष्यादित्वेन जायत इत्युच्यते । तस्यायुरादिनिमित्तवशादवस्थानमस्तित्वम् । 'सत एवावस्थान्त रावाप्तिविपरिणामः । अनिवृत्तपूर्वस्वभावस्य भावान्तरेण आधिक्यं वृद्धिः ।
क्रमेण पूर्वभावैकदेशनिवृत्तिरपक्षयः । तत्पर्यायसामान्यविनिवृत्तिविनाशः। एवं प्रतिक्षणं १. वृत्तिभेदादनन्तरूपा जायन्ते इति नानात्मता भावस्य, अथवा सत्'ज्ञेयद्रव्यामूर्तातिसूक्ष्मावगाहनासंख्येयप्रदेशाऽनादिनिधनचेतनत्वादिना । किञ्च,
अनेकवाग्विज्ञानविषयत्वात् ।५। इह लोके एकोऽर्थोऽनेकशब्दवाच्यो भवति तथाभि'धेयपरिणामे सति तेषां शब्दानां तत्र प्रयोगात् । प्रयोगो हि प्रतिपादनक्रिया, तस्याः शब्दार्थावुभावपि साधको। शब्दस्तावद् व्यञ्जकत्वात् साधकः। अर्थोऽपि व्यङग्यत्वात् 'कर्मभावमापद्यमानः तत्समकालमेव 'स्वातन्त्र्यमनुभवति, तस्मिन् सति क्रियाप्रवृत्तेः । यथा पचौ तण्डुला कर्मरूपापन्ना एव कर्तृ तामास्कन्दन्ति येनोच्यते कर्मकारकमिति, अतः तस्मिन् सति अनेकः शब्दः प्रयुज्यते यथा घटः पार्थिवः मार्तिक: "सन् ज्ञेयो नवो महान् इत्यादि, एवमात्मकानां च विज्ञानानामालम्बनं भवति तैविना तस्याभावात् । सर्वे ते घटस्य आत्मानः । तथा आत्मन्यपि अनेकवाग्विज्ञानालम्बनदर्शनादेकस्यानेकात्मकत्वमवसेयम् । अपि च,
१ इवं सूत्र नास्ति ता०, १०, मू०, व०, भा० १, २, ज० । वातिकमिदं न सूत्रम्- १० टि० । २ काष्टो २०। ३ अपक्षयते ता०,०म०। ३ मनुष्यगतिनाम- मु०, २०, मू०। मनुष्यादिनामघ०। ४सतोऽवस्था-मु०। ५-शः एवं प्रतिक्षणवृत्ति - मु०,०। -शः त एव प्रतिक्षणं वृत्तिभेमू०१०। ६ स तुझे- ०, मू०। सन्ज्ञेय- मु०, २०। ७ अर्थस्य । ८ क्रियाव्याप्यं कर्म । ६ कर्तुत्वम् । १० स तु जे- ०। ११ भावः। १२ शम्बवाग्विज्ञानादिसन्निधानाज्जातकर्मरूपाताभिः। १३ स्वरूपाः।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org