________________
४४२ ]
चतुर्थोऽध्यायः
२५१
अनेकशक्तिप्रचितत्वात् ॥ ६ ॥ यथा घृतं स्नेहयति तर्पयति उपबृंहयतीति अनेकशक्ति, घटो वा जलधारणाहरणादिलक्षणयाऽनेकया शक्त्या प्रचितः, तथा आत्मनोऽपि द्रव्यक्षेत्र - कालभावनिमित्तवशादनेक विकारप्राप्तियोग्य बहुशक्तियोगादनेकात्मकत्वम् । इतश्च,
बस्त्वन्तरसम्बन्धाविर्भू तानेकसम्बन्धिरूपत्वात् ॥ ७॥ यथैको घटः 'पूर्वापरान्तरितानन्तरित-दूरासन्न-नवपुराण-समर्थासमर्थ-देवदत्तकृतचैत्रस्वामिकत्व-संख्या परिमाण-पृथक्त्व-संयोग- ५ विभागादिभेदादने कव्यपदेशभाग्भवति, सम्बन्धानामानन्त्यात्, तत्तत्सम्बन्धिनमवेक्ष्य तस्य तस्य पर्यायस्य भावात् । अथवा, पुद्गलानामानन्त्यात्तत्तत् पुद्गलद्रव्यमपेक्ष्य एकपुद्गलस्थस्य तस्यैकस्यैव पर्यायस्याऽन्यत्वभावात् । यथा प्रदेशिन्या: 'मध्यमाभेदात् यदन्यत्वं न तदेव अनामिकाभेदात् । मा भूत् मध्यमानामिकयोरेकत्वं मध्यमाप्रदेशिन्यन्यत्वहेतुत्वेनाऽविशेषादिति । न चैतत्रावधिक मेवार्थसत्त्वम् । यदि मध्यमासामर्थ्यात् प्रदेशिन्याः ह्रस्वत्वं जायेत १० शशविषाणेsपि स्याच्छक्रयष्टी' वा । नापि स्वत एव, परापेक्षाभावे तद्व्यक्त्यभावात् । तस्मातस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणं प्रतीत्य तत्तद्रूपं वक्ष्यते । न 'तत् स्वत एव नापि परकृतमेव । एवं जीवोऽपि कर्मनो कर्म विषयवस्तूपकरणसम्बन्धभेदादाविभूर्तजीवस्थानगुणस्थानमार्गणास्थानविकल्पाऽनन्तपर्यायरूपः प्रत्येतव्यः । इतरच,
अन्यापेक्षा भिव्यङग्याऽनेकरूपोत्कर्षापकर्षपरिणतगुणसम्बन्धित्वात् ॥८॥ यथा एको घट १५ एकद्वित्रिचतुः संख्ये याऽसंख्येयानन्तावस्थोत्कर्षापकर्षात्मकरूपादिपरिणतिप्रतियोगिद्रव्यापेक्षा सहकारिकारणाभिव्यञ्जनीयात्मीयानन्तनीलनीलतरादिपरिणामः, तथा जीवोऽपि परद्रव्यसंबन्धापेक्षाभिव्यक्ततीव्राद्यवस्थाविशेष क्रोधाद्यविभागपरिच्छेदाऽनन्तरूपत्वादनेकः । इतश्च,
अतीतानागतवर्तमानकालसंबन्धित्वात् ।९ । इह ' समुदायावयवप्रध्वंसविषयेणातीतेन कालेन उत्पत्तिनिर्ज्ञातिसंभावन" विषयेण च अनागतेन कालेन साधनप्रवृत्त्यविरामगोचरेण च २० वर्तमानेन कालेन संबन्धात् मृदादिद्रव्यं तस्मिन् तस्मिन् कालेऽनेकभेदमापद्यमानं दृष्टम् । वर्तमानमात्रत्वेऽपूर्वत्वात् अपरत्वाच्च अवध्यभावे वर्तमानस्याप्यभावो बन्ध्यापुत्रयुवत्ववत् । तथा जीवस्यापि अनाद्यतीतकालसम्बन्धपरिणतः अनागतानन्तकालवशवर्तिभिः वर्तमानकालोद्भूतवृत्तिभिश्च पर्यायैरर्थव्यञ्जनभेदाद् द्वैविध्य मास्कन्दद्भिरभिसम्बन्धाद्नन्तरूपता ।
२५
इतश्च,
उत्पादव्ययधू व्ययुक्तत्वात् |१०| उत्पादादीनामानन्त्यम् अनन्तकाले एकस्मिश्च काले । यथा घट एकस्मिन्नेव काले द्रव्यतः पार्थिवत्वेन उत्पद्यते न जलत्वेन, देशत इहत्यत्वेनन पाटलिपुत्रकत्वेन, कालतो वर्तमानकालतया नातीतानागताभ्याम् भावतो महत्त्वेन नाल्पत्वेन, एतेषां च एकैक उत्पादः सजातीयान्यपार्थिवानेकघटान्तरगतेभ्यः सौवर्णादीषद्विजातीयघटान्तरगतेभ्यो वा अत्यन्तविजातीयपटाद्यनन्तमूर्त मूर्तद्रव्यान्तरापन्नेभ्यो वा ३० उत्पादेभ्यो भिद्यमानः तावद्धा "भेदमुपयाति अन्यथा "तैरविशिष्टः स्यात् । तथा तदैवानुत्पद्यमानद्रव्यसंबन्धकृतोर्ध्वाधस्तिर्यगन्तरितानन्तरितैकान्तरादिदिग्भेद-महदल्पत्वादिगुणभेद-रूपाद्युत्कर्षापकर्षानन्तभेद - त्रैलोक्यत्रिकालविषयसंबन्धिवशभिद्यमानरूपो वा उत्पादोऽनेको भवति ।
१ पूर्वपरान्तरित - द०, मु०, ता० । २ सकाशाज्जात । ३ अन्यकारणकम् । परार्थायत्तमेव -ता० टि० । ४ स्वशक्तिमन्तरेण । ५ - मुष्टौ वा मु० । इन्द्रधनुषि - स० ६ श्रनन्तपरिणामत्वम् । ७ - पानन्त - श्र० ८ वस्तुनि । ९ निश्चयेन । १० मनुष्योऽयं देवोऽयं भविष्यत्येवेति । ११ षड्डति संख्येति संख्यावस्वे प्रकारे घेति षाप्रत्ययः । १२ उत्पादादिभिः । १३ एकत्वं स्यावित्यर्थः ।
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org