________________
तत्त्वार्थवार्तिके
[४१४२ तथाऽनेकावयवात्मकस्कन्धप्रदेशभेददृष्टविषमोत्पादनानारूपतया वा अनेक उत्पादः । उदकादिधारणाहरणप्रदानाधिकरणभयहर्षशोकपरितापभेदजननादिस्वकार्यप्रसाधनेन वा अनेक उत्पादः । तदैव तावन्त एव तत्प्रतिपक्षभूता विनाशाः, पूर्वेणाविनष्टस्य उत्तरेणानुत्पादात्। उभयविपक्षभूताः स्थितयोऽपि तदैव तावत्यः तदाधारभूताः, अनवस्थितस्य बन्ध्यापुत्रवदुत्पादविनाशासंभवात्, अभावप्रसङाच्च । घट उत्पद्यत इति यदा वर्तमानकालता; तदा अनभिनिर्वृत्तत्वात् पूर्वापरीभूतसाध्यमानभावाभिधानाच्चासत्त्वम् । उत्पत्त्यनन्तरं तु विनाशेऽभ्युपगम्यमाने सत्त्वभूतावस्थाभिधायकोत्पन्नशब्दवाच्यत्वाभावात् उत्पादेऽप्यभावो विनाशेप्यभाव इति भावाभावात्तदाश्रयो व्यवहारो विरोधमुपगच्छेत्, 'बीजशक्त्य
भावाच्च उत्पादविनाशशब्दवाच्यताभ्रेषश्च । तत उत्पद्यमानता उत्पन्नता विनाशश्चेति १० तिस्रोऽवस्था अभ्युपगन्तव्याः । तथा जीवस्याप्येकस्य द्रव्यार्थिकपर्यापार्थिकनयगोचरसामान्यविशेषानन्तशक्त्यपेक्षार्पितस्थित्युत्पत्ति निरोधानन्तरूपत्वात् अनेकत्वं प्रत्येतव्यम् । इतश्च,
___ अन्वयव्यतिरेकात्मकत्वाच्च ।१। इह घट एकोऽप्यन्वयव्यतिरेकात्मकतया अनेको दृष्टः सदचेतननवपुराणत्वादिभिः, तथा आत्मापि एकोऽन्वयव्यतिरेकात्मतया अनेकः प्रत्येतव्यः ।
के पुनरन्वयाः ? बुद्धयभिधानानुवृत्तिलिङगेन 'अनुमीयमानाविच्छेदाः स्वात्मभूताऽस्तित्वा१५ ऽऽत्मत्वज्ञातृत्वद्रष्टत्वकर्तृत्वभोक्तृत्वाऽमूर्तत्वाऽसंख्यातप्रदेशत्वावगाहनातिसूक्ष्मत्वागुरुलघुत्वाहे
तुकत्वाऽनादिसंबन्धित्वोर्ध्वगतिस्वभावादयः। अथ के व्यतिरेकाः ? वागविज्ञानव्यावृत्तिलिङगसमधिगम्यपरस्परविलक्षणा उत्पत्तिस्थितिविपरिणामवृद्धि क्षयविनाशधर्माण : गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्यासम्यक्त्वादयः ।
तस्य शब्देनाभिधानं क्रमयोगपद्याभ्याम् ॥१२॥ तस्यैकस्य जीवस्यानेकात्मकस्य प्रत्यायने २०. शब्दः प्रवर्तमानो द्वेधा व्यवतिष्ठते क्रमेण योगपद्येन वा, न तृतीयो 'वाक्पथोऽस्ति ।।
तेच कालादिभिर्भेदाभेदार्पणात् ॥१३॥ ते च क्रमयोगपद्ये कालादिभिः भेदाभेदार्पणाद्भवतः । यदा वक्ष्यमाणः 'कालादिभिरस्तित्वादीनां धर्माणां भेदेन विवक्षा तदैकस्य शब्दस्यानेकार्थप्रत्यायनशक्त्यभावात् क्रमः। यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देन एकधर्मप्रत्यायनमुखेन तदात्मकत्वमापन्नस्य अनेकाशेषरूपस्य प्रतिपादनसंभवात् यौगपद्यम् । तत्र यदा यौगपद्यं तदा सकलादेशः, स एव प्रमाण'मित्युच्यते । *"सकलादेशः प्रमाणाधीनः" [ ] इति वचनात् । यदा तु क्रमः तदा विकलादेशः, स एव नय इति व्यपदिश्यते । *"विकलादेशो नयाधीनः" [ ] इति वचनात् । कथं सकलादेशः ? ।
एकगुणमुखेनाऽशेष वस्तुरूपसंग्रहात् सकलादेशः ॥१४॥ यदा अभिन्नमेकं वस्तु एकगुणरूपेण उच्यते गुणिनां गुणरूपमन्तरेण विशेषप्रतिपत्तेरसंभवात् । एको हि जीवोऽस्तित्वा'दिष्वेकस्य गुणस्य रूपेणाऽभेदवृत्त्या अभेदोपचारेण वा निरंशः समस्तो वक्तुमिष्यते, विभागनिमित्तस्य प्रतियोगिनो गुणान्तरस्य तत्रानाश्रयणात्, तदा सकलादेशः । कथमभेद्वृत्तिः
कुत: ? २ उत्पादाभावात् । ३ ध्रौव्यस्वरूपमाह । ४ कारण। ५ निरोधो नाम नाशः। ६ अनमीयमानतदेवेवमित्यात्मकतया अनुकला वृत्तिः भा० २ टि०। ७-द्धि हास वि- म० ।
वाक्यार्थोऽस्ति म०, २०। ९काल प्रात्मरूपः अर्थः सम्बन्ध उपकारः गणिदेशः संसर्गः शब्द इति । १० तदेकत्वमाप- म०, ०। ११ उद्धृतमिदम्- स० सि० १।६। १२-स्य रूपेण मू० । -स्य गुणरूपेण मु०, २०।
P
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org