________________
४४२ ]
चतुर्थोऽध्यायः
कथं वा अभेदोपचारः ? द्रव्यार्थत्वेनाश्रयणे तदव्यतिरेकादभेदवृत्तिः । पर्यायार्थत्वेनाश्रयणे परस्परव्यतिरेकेऽपि एकत्वाध्यारोप':, ततश्चाऽभेदोपचारः ।
तत्राऽऽदेशवशात् सप्तभङ्गी प्रतिपदम् | १५ | तत्रैतस्मिन् सकलादेश आदेशवशात् सप्तभङ्गी प्रतिपदं वेदितव्या । तद्यथा - स्यादस्त्येव जीवः, स्यान्नास्त्येव जीवः, स्यादवक्तव्य एव जीवः स्यादस्ति च नास्ति च स्यादस्ति चाऽवक्तव्यश्च स्यान्नास्ति चावक्त- ५ व्यरच, स्यादस्ति च नास्ति चावक्तव्यश्च इत्यादि । उक्तं च
"* पुच्छावसेण भंगा सत्तेव दु संभवंति जस्स जथा ।
'वत्युत्तितं उच्चदि सामण्णविसेसदो 'णियदं ॥ १॥" [
] इति ।
तत्र स्यादस्त्येव जीव इत्येतस्मिन् वाक्ये जीवशब्दो द्रव्यवचनः विशेष्यत्वात्, अस्तीति गुणवचनो विशेषणत्वात् । ' तयोस्सामान्यार्थाविच्छेदेन विशेषणविशेष्यसंबन्धावद्योतनार्थ १० एवकारः । तेनेतरनिवृत्तिप्रसङ्गे तत्संभवप्रदर्शनार्थः स्याच्छब्दप्रयोगः, स च लिङ्गन्तप्रतिरूपको निपातः । तस्यानेकान्तविधिविचारादिषु बहुष्वर्थेषु संभवत्सु इह विवक्षावशात् अनेकान्तार्थो गृह्यते । यद्ययमनेकान्तार्थः तेनैव सर्वस्योपादानात् इतरेषां पदानामानर्थक्यं प्रसज्यते ; नैष दोषः; सामान्येनोपादानेऽपि विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः, वृक्षशब्दस्य सामान्यशब्दत्वात् धवादिविशेषप्रतिपादने धवाद्युपादानवत् । अथवा, स्याच्छब्दोऽय- १५ मनेकान्तार्थस्य द्योतकः । द्योतकश्च वाचकप्रयोग सन्निधिमन्तरेणाऽभिप्रेतार्थावद्योतनाय नामिति' तद्द्योत्यधर्माधारार्थाभिधानायेतरपदप्रयोगः क्रियते । अथ केनोपात्तोऽनेकान्तार्थः अनेन द्योत्यते ? उक्तमेतत् - अभेदवृत्त्या अभेदोपचारेण वा प्रयुक्तशब्दवाच्यतामेवास्कन्दन्ति इतरे धर्मा इति । एवमितरेष्वपि वाक्येषु" अर्थप्रकल्पनं प्रत्येतव्यम् ।
यद्येवं स्यादस्त्येव जीवः इत्यनेनैव सकलादेशेन जीवद्रव्यगतानां सर्वेषां धर्माणी संग्रहात् २० इतरेषां भगानामानर्थक्यमासजति नैष दोषः ; गुणप्राधान्यव्यवस्थाविशेषप्रतिपादनार्थत्वात् सर्वेषां भङगानां प्रयोगोऽर्थवान् । तद्यथा, द्रव्यार्थिकस्य प्राधान्ये पर्यायगुणभावे च प्रथमः । पर्यायार्थिकस्य प्राधान्ये द्रव्यगुणभावे च द्वितीयः । तत्र प्राधान्यं शब्देन विवक्षितत्वाच्छब्दाधीनम्, शब्देनानुपात्तस्यार्थतो गम्यमानस्याऽप्राधान्यम् । तृतीये तु युगपद्भावे उभयस्याप्राधान्यं शब्देनाभिधेयतयाऽनुपात्तत्वात् । चतुर्थस्तूभयप्रधानः क्रमेण उभयस्या - २५ स्त्यादिशब्देन उपात्तत्वात् । तथोत्तरे च भङगा वक्ष्यन्ते ।
२५३
तत्रास्तित्वकान्तवादिनः 'जीव एव अस्ति' इत्यवधारणे अजीवनास्तित्वप्रसङ्गभयादिष्टतोऽवधारणविधिः 'अस्त्येव जीवः' इति नियच्छन्ति, तथा चावधारणसामर्थ्यात् शब्दप्रापितादभिप्रायवशवर्तिनः सर्वथा " जीवस्याऽस्तित्वं प्राप्नोति । सर्वेणाऽस्तित्वेन व्याप्त इति पुद्गलाद्यस्तित्वेनापि जीवस्यास्तित्वं प्राप्तम् शब्देन तथा प्रापितत्वात् ३० शब्दप्रमाणकाश्च वयमर्थाधिगमे । स्यान्मतम्, अस्तित्वसामान्येन व्याप्तिर्न त्वस्तित्व
१ - पात्तत - मु०, द । २ प्रश्नवशेन । ३ स्वरूपं भवतीति । ४ प्रश्नवशेन भङ्गा सप्तैव तु संभवन्ति यस्य यथा । वस्तु इति तत् प्रोच्यते सामान्यविशेषतो नियतम् । ५ सामान्यात्मनोः । ६ तिङन्तप्र- मु०, ६० । ७ स्यात्कारचकारावि । ८ स्यात्कारेण । ६ -रत्वाभि- मु०, द० । १० षट्सु । ११ - यस्यापि शब्देन ता०, श्र० । १२ नियमं करोति । १३ -थास्य जी - मु०, ब० । १४ पुद्गलादिप्रकारेण 1 १५ तन्माभूदिति स्याच्छब्दप्रयोगे इत्यभिप्रायः । १६ अत्राह परः - स्यात्कारमन्तरेण पुद्गलाद्यस्तित्वेन जीवस्यास्तित्वं न प्राप्नोति, किन्तु स्वत एवेति समर्थयितुं स्यादित्यादिना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org