________________
२७] द्वितीयोऽध्यायः
११५ शान्तमोहः क्षायिकसम्यग्दृष्टि: । द्वितीय औदयिकौपशमिकक्षायोपशमिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तक्रोधो वाग्योगी । तृतीय औदयिकौपशमिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तमानो जीवः । द्वितीयत्रिभावसंयोगे औपशमिकं परित्यज्यौदयिकक्षायिकौ परिगृह्य क्षायोपशमिकपारिणामिकयोरेकैकस्य परिग्रहाद् द्वौ भङगौ । तत्रैकः औदयिकक्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीणकषायः श्रुत- ५ ज्ञानी। द्वितीय औदयिकक्षायिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीणदर्शनमोहो' जीवः । तृतीयत्रिभावसंयोगे औदयिकपरिग्रहादौपशमिकक्षायिकत्यागादेकः औदयिकक्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्यः मनोयोगी जीवः। चतुर्थत्रिभावसंयोगे औदयिकं परित्यज्यौपशमिकादिभावचतुष्टयस्यैकैक त्यागाच्चत्वारो भङ्गाः। तत्रैक औपशमिकक्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम उपशान्तमानः क्षीणदर्शन- १० मोहः काययोगी। द्वितीय औपशमिकक्षायिकपारिणामिकसान्निपातिकजीवभावो नाम उपशान्तवेदः क्षायिकसम्यग्दृष्टिव्यः । तृतीय औषशमिकक्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम उपशान्तमानो मतिज्ञानी जीवः । चतुर्थः क्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम क्षीणमोहः पञ्चेन्द्रियः भव्यः। त एते त्रिभावसंयोगभङ्गाः समुदिता दश।
___चतुर्भावसंयोगेन पञ्च भङ्गा औदयिकादीनामेकैकत्यागात् । तत्रैक औपशमिक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम उपशान्तलोभः क्षीणदर्शनमोहः पञ्चेन्द्रियो जीवः । द्वितीय औदयिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीणकषायो मतिज्ञानी भव्यः । तृतीय औदयिकौपशमिकक्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तवेदः श्रुतज्ञानी जीवः । चतुर्थ औदयिकौ- २० पशमिकक्षायिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तरागः क्षीणदर्शनमोहो जीवः । पञ्चम औदयिकौपशमिकक्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तमोहः क्षायिकसम्यग्दृष्टिरवधिज्ञानी।
पञ्चभावसंयोगेनैकः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तमोहः क्षायिकसम्यग्दृष्टि: पञ्चेन्द्रियो जीवः ।
२५ एवं षड्विंशतिविधः सान्निपातिकभावः ।
षदिशद्विध उच्यते-द्वयोरौदयिकयोः सन्निपातादौदयिकस्यौ'पशमिकादिभिः चतुभिरेकशः सन्निपातात् पञ्च भङ्गाः। तत्र प्रथम औदयिकौदयिकसान्निपातिकजीवभावो नाम मनुष्यः क्रोधी। द्वितीय औदयिकौपशमिकसान्निपातिकजीवभावो नाम मनुष्यः उपशान्तक्रोधः । तृतीय औदयिकक्षायिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीणकषायः । चतुर्थ औदयिक- ३० क्षायोपशमिकसान्निपातिकजीवभावो नाम क्रोधी मतिज्ञानी । पञ्चम औदयिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्यो भव्यः। द्वयोरौपशमिकयोः सन्निपातादौपशमिकस्यौदयिकादिभिश्चतुभिरेकशः सन्निपातात् पञ्च भङ्गाः । तत्रैक औपशमिकौपशमिकसान्निपातिकजीवभावो नाम उपशमसम्यग्दृष्टिरुपशान्तकषायः । द्वितीय औपशमिकौदयिकसान्निपाति
१सायिकसम्यगृष्टिरिति यावत् । २-त्यागे च-पा०, ब०, २०, मु०, ता० । ३ -पशमाविभि- ता०, श्र०, मू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org