________________
१० ]
सेतुबन्धम्
[ प्रथम
भयोत्पन्ने पुलके प्रेक्षकाणां सात्त्विकविकारशङ्का स्यादिति लज्जा । वक्रीभवनं प्रति हेतुमाह-- द्वितीयावकाशं दक्षिणाधं प्रति गमने उत्सुकमुत्कण्ठितम् । स्त्रीणां भयेन स्वामिपरिरम्भणमिति स्वभावः । पुनः कीदृशम् । प्रेमस्वभावेन प्रियं प्रत्यनुरागेण विमुषितं किंकर्तव्यतामूढम् । तत्र गमने लज्जा अगमने भयमिति दोलायमानम् । अत एव गमनेच्छामात्रं न तु कृतिरिति तात्पर्यम् । वस्तुतस्तु भर्तुर्नृत्यकालीनकटाक्षभुजक्षेपादिभिरुत्पन्नसात्त्विक विकारम् । अत एव सलज्जं कामोत्पत्त्या दक्षिणार्धमालिङ्गितुमुत्कण्ठितमपि लज्जया निवर्तमानं वेपते । पुरः पश्चात्सञ्चारशील मित्यर्थः । तदुक्तं प्रेमस्वभावेति । प्रियानुरागेण गन्तुकं लज्जया किंकर्तव्यताविमूढतया विमुषितम् । अत एवोक्तं वलितुमाकाङ्क्षति न तु वलते इति सारम् || ६ ||
विमला - जिस अर्धनारीश्वर ( शिव ) के शरीर का वामार्ध ( गौरीशरीर ), (उनके नृत्यकालीन कटाक्ष भुजक्षेपादि से ) जिसका स्तनकलश रोमाञ्चित हो उठा; दक्षिणार्ध ( शिवशरीर ) का आलिङ्गन करने के लिये उत्सुक हो उसकी ओर घूमना चाहता है किन्तु लज्जा वश ( हिचकिचा कर ) प्रेम के स्वभाव से किकर्त्तव्यतामूढ हो कम्पित होता रहता है— ज्योंही आलिङ्गनार्थ उत्सुक हो आगे बढ़ता है त्योंही लज्जा-वश पीछे लौट पड़ता है, यही क्रिया निरन्तर चला करती है || ६ ||
शिवस्याट्टहास मानन्दमूलकत्वेन वर्णयति-
जस्स विलग्गन्ति जहं फुडपडिसद्दा दिसाल पडिक्खलिआ । जोहाकल्लोला विश्र समिधवलासु रमणीसु हसिमच्छेश्रा ॥७॥ [यस्य विलगन्ति नभः स्फुटप्रतिशब्दा दिक्तलप्रतिस्खलिताः । ज्योत्स्नाकल्लोला इव शशिधवलासु रजनीषु हसितच्छेदाः ॥ ]
यस्य हसितैकदेशा ज्योत्स्नीषु रात्रिषु नभो विलगन्ति वियद्वचापका भवन्ति । अन्तरान्तरा विच्छिद्य विच्छिद्योत्पत्त्या खण्डा इत्युक्तमिति वा । कथम्भूताः । स्फुटः प्रतिरवो येषां ते । एवं दिक्तलेषु प्रतिस्खलिता घनीभूय परावृत्ताः । पुनः कथंभूता इव । ज्योत्स्नायाः कल्लोला इव । श्वेतत्वात् । शिरः स्थितचन्द्रकलाया वा । अन्येऽपि कल्लोलाः पर्वतादिषु स्खलिताः सन्तः ऊर्ध्वं दिशश्व व्याप्नुवन्ति प्रतिशब्दहेतुशालिनश्च भवन्ति । एतेन हसितस्य व्यापकत्वमुक्तम् । ज्योत्स्नाकल्लोला इवेति सहोपमा वा । यथा ते दिक्तलस्खलिता इव नभो विगलन्ति तथैतेऽपीत्युत्प्रेक्षामूलम् ॥७॥
बिमला - बीच-बीच में रुक-रुक कर किये गये जिन ( शिव ) के अट्टहास, जिनके प्रति शब्द स्फुट एवं दिशाओं में जो प्रतिस्खलित हैं, उजाली रात में ज्योत्स्ना के कल्लोल से आकाश को व्याप्त करते हैं || ७ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org