Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 13
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् तस्य सर्वान्तःपुर-पुरन्ध्र-प्रधानभूता कमलावती नाम राज्ञी । तस्याः प्राण-प्रिया सावलिङ्गी नाम्नी पुत्री बहु-पुत्रोपरि जाता, स्वरूप-निर्जित-रम्भाऽअखिल-जन-नयन-कुरङ्गवागुरा पितृ- भ्रातृ-चितालादकारिणी। यस्याः पदाङ्गुष्ठ-नखौ मुखं च बिभर्ति पूर्णेन्दु-चतुष्टयं या । कलाश्चतुःषष्टिरूपैतु वासं, तस्यां कथं सुश्रुवि नाम नाऽस्याम् ॥ १४ तस्याः पाणि-ग्रहण-निमित्तं स्वयंवर-मण्डपो राज्ञा कारितः । तत्र बहु-राजकुमारा आकारिताः सन्तो मिलिताः । तच्छ्रुत्वा प्रभुवत्स-राज्ञे मन्त्रि-प्रभृतिभिः रुक्तम् । देवान्ये राजकुमाराः स्वयंवर-मण्डपे गताः । युष्मत् कुमारस्याकारणायाद्यापि कोऽपि जनो नागतोऽस्ति ततः कुमारं स्वयमेव प्रेषयत । राजाह-उत्तमाः प्रौढे-तावन्मेलापकेऽनाकारिताः कथं गच्छन्ति । यतः अनादतः प्रविशतिह्यपृष्टो बहु भाषते । अदत्तमासनं भेजे स पार्थ पुरुषाधमः ॥ १५ मा उत्सुका भवन्तु । स्थिरा लक्ष्मीः । (अत्र कथा ।) अत्राऽऽगमिष्यति जनः इति वदत एव राज्ञोऽग्रे दूत आगात् । तेनोक्तम्-देव सदयवत्सकुमारा कारणायाहं प्रेषितोऽस्मि राज्ञा श्रीसालवाहनेन । ततो राज्ञा कुमारो मन्त्रिभिः सह प्रेषितो बहु-सैन्य-युतः । राज्ञा मन्त्रिणे उक्तं यदयं कुमारो व्ययार्थं मार्गयति तत् सर्वं समर्पणीयमस्य । कृपणत्वं न करणीयं । दान-शौण्डे मेलापके मिलिते कार्पण्यं महदपकीर्तये स्यात् । यतः औदार्य-गुण-युक्तेषु कृपणो नैव शोभते । भद्र-जाति-गजेन्द्रेषु यथा गर्दभ-मंडलम् ॥ १६ राज्ञेत्थं शिक्षितोऽपि मन्त्री कृपणः कुमाराय स्तोक स्तोकमेवादाद् दानादि-व्ययार्थम् । यतः । ऋणादपि महान् कम्पो दानस्याऽवसरे भवेत् । भीमः सङ्कुचितो गात्रे दान-दातव्य-शङ्कया ॥ १७ गोग्रहे कौरव-हृत-गो-'[धना]हारार्थं गच्छन् हर्षादुल्लसद्गात्रो भीमः सन्नाहं गृह्णाति, परं देहे नाऽऽगच्छति । अपरे पाण्डवा व्याकुलीभूताः कृष्णं विज्ञापयन्ति-भीमदेहे सन्नाहो नागच्छति किं करिष्यति। कृष्णः प्राह-धीरा भवत । ततः कृष्णो ब्राह्मण-वेषेण दान-मार्गणाय तमयाचत्। भीमस्तदा दातव्य-वस्त्वभावात् खेदात् संकुचित-गात्रोऽभूत् । सन्नाहो देह आगाद् ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114