Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 22
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम मुक्ताः । जना हसंति सर्वे-अहो दैवज्ञेन गज-मरणं ज्ञातं, परमात्मनः कारागृह-पतनं न ज्ञातम्। यतः गगने गणयति गणकश्चन्द्रेण समागमं विशाखायाः । अन्यासक्तां गृहिणीं कथमपि मूढो न जानाति ॥ ८५ राजा वक्ति-यदि कूटं भविष्यति तदाऽस्य हृदये ललाटे च डम्भान् दापयिष्ये विप्रस्यावध्यत्वात् । राज्ञा गजेन्द्र-रक्षार्थं यत्नः कारितो । गज-वैद्याश्चाकार्य दर्शितः । तैरुक्तंदेव अस्य गजस्य वपुनिरामयं समस्ति । नहि कोऽप्युपघातः तेन नानाहारैः पोष्य एव । ततो लोह शृङ्खलाभिनिगडित आलानस्तम्भे बद्धः । रात्रिर्व्यतीयाय सुखेन । प्रभाते तत्रागानृपः । पृष्ठा गज-स्वरुपं हस्तिपकाः । तैरुक्तं-देव, सुखी गजः प्रहरोऽतिचक्रमे । ततो द्वितीय -प्रहरे गजो मदेनोन्मत्तो बभूव । आलान-स्तम्भमुन्मुल्य शृङ्खलाः खण्डशः कृत्वाऽऽषाढ-मासोन्नतसजल-जलदवद् गर्जन् हस्तिशालातो निस्ससार। पुरे निरङ्कशो भ्रमति । हट्टाट्टालानि पातयति । चतुष्पथे सौगन्धिक-हट्टस्तत्र-कर्पूर-कस्तूरिकागुरु-सुगन्ध-तैल-प्रमुख-वस्तूनि तथो वलितानि यथा तेषां लवोऽपि न लभ्यते । घृत-हट्टेषु घृत-तैल-भाजनानि तथा ढोलितानि यथा घृततैलानां नद्यवहत् । दोसी-हट्टेषु जल-कर्पट-पट्टकूल-शाटिकादि-वस्त्राणि तथोल्लालितानि यथैकच्छायमभूत्पुरम् । नैस्तिक-हट्ट-वस्तु पुग-सञ्चयैस्तदुत्क्षिप्तैश्चतुष्पथं दन्तुरमजनि । ताम्बूलिकपत्रसंचया गजेन सर्वत्र प्रसारिताः । नश्यद्भिौकैः कलकलमयं पुरमजनिष्ट । इत्थं सर्व-प्रकारेण पुरं निस्सारं कुर्वन् ब्राह्मण-पाटके गजो जगाम । तावता कस्यापि विप्रस्य भार्या सीमन्त-भवनेन महोत्सव-पंच-शब्द वाद्य-निनाद-पूर्वं पति-गृहाच्छशुर-गृहं गच्छत्यस्ति । इतः स गजस्तत्रेवागात् । तं गजं प्रत्यक्ष-यम-दूतमिव दृष्ट्वा परिजनो मरणभय-त्रस्तो दिशोदिशं ननाश । सा बाला गर्भ-भाराच्छाटिका-मुकुटदि-बहु-नेपथ्यभाराच्च नष्टुमशक्ता गजेन गृहीत्वा दन्त मुशलोपर्यधारि। हाहाकारोऽभूत् । तावत् तत्पतिर्बुम्बारवं कुर्वन मुखतो हंहं ब्रुवन् सदयवत्सकुमाराग्रे निर्गतः, तदुच्चैः क्रन्दन्स वक्ति-अहो सुभटा यो मम गृहिणी रक्षति तस्य हार-कुण्डलाद्याभरणानि ददाम्यपरमपि पारितोषिकमर्पयामि । अहो ! सुभट-कुल-मण्डनं कोऽप्यस्ति । मात्रा पीडित-जन-रक्षा-करण-क्षमःकोऽपि जनितोऽस्ति । ततो द्यूत-स्थान-स्थेन कुमारेण पृष्टं-कि जातम् । स तत्स्वरूपमाह । सदयश्चिन्तयति : किं पौरुषं रक्षति येन नार्तान् किं तद्धनं नार्थिजनाय यत्स्यात् । सा का क्रिया या न हितानुबन्धा किं जीवितं साधु-विरोधि यद् वा ॥८६ कुमारोऽधावत । रे मातंग ब्रह्म-स्त्री-हत्या-कारक मातंग मुञ्चैनाम् । गजो न मुञ्चति तां बहु प्रकारैः खेदितोऽपि । ततः क्रुद्धेन कुमारेण खड्ग-घाताद् गज-शिरश्छित्त्वा बलान्मोचिता।

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114