Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् वर्षा नैव पतन्ति चातक-मुखे मेघस्य किं दूषणम्
यत् पूर्वं विधिना ललाट-लिखितं तन्माजितुं कः क्षमः ॥६६ राजाऽवदत् - कामपि शास्त्र-वार्ता वेत्सि । सोऽवोचत्-देव किमपि पृच्छ यथा स्वयमेव ज्ञास्यसि ।
यतः -
पातु वो निकष-ग्रावा मति-हेम्नः सरस्वती ।
प्राज्ञेतर-परिच्छेदं वचसैव करोति या ॥ ६७ यद्वाऽनेकप्रकारा विद्याः
उपकाराय या पुंसां न परस्य न चाऽत्मनः । पत्र-संचय-संभारैः किं तया भार-विद्यया ॥ ६८ अनुष्ठानेन रहिता पाठ-मात्रेण केवलम् ।। रञ्जयत्येव या लोकं किं तया शुक-विद्यया ॥ ६९ गोप्यते या श्रृतज्ञस्य मूर्खस्याग्रे प्रकाश्यते । न दीयते सुशिष्येभ्यः किं तया शुष्क-विद्यया ।। ७० परोत्कर्ष समाच्छाद्य विक्रयाय प्रसार्यते । या मुहुर्धनिनामग्रे किं तया पण्य-विद्यया ॥ ७१ न तीर्यते ययाऽघोरः संसार-मकराकरः । नित्यं चिन्तासु बन्धिन्या किं तया मोह-विद्यया ॥ ७२ न विवेकाञ्चितां बुद्धि न वैराग्यमयं मनः । संपादयति या पुंसः किं तया कष्ट-विद्यया ॥ ७३ पर-मात्सर्य-शल्येन व्यथा संजायते यथा । सुख-निद्रापहारिण्या किं तया शूल-विद्यया ।७४ पर-सूक्तापहारेण स्व-सुभाषित-वादिना । स्वोत्कर्षः स्थाप्यते यस्याः किं तया चोर-विद्यया । ७५ लोभः प्रभूत-वित्तस्य रागः प्रव्रजितस्य च । न यया शान्तिमायाति किं तया शोक-विद्यया ॥ ७६ गृहे चैव प्रगल्भेत सभायां न प्रवर्तते । प्रतिभासयतो याति किं तया दोष-विद्यया ॥७७
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114