Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 71
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् मयोज्जयिनी-गतेन स्व-द्यूत-कलया तद्धस्तगतमेतज्जित्वा गृहीतम् । तेन हेतुना तन्नामात्र । राजाऽवद-मंत्र्यादीनां पुरः-पृथिव्यां स कोऽपि नास्ति यः सदयं छलेन बलेन कलया वा निर्जित्य तस्यासिं गृह्णाति सिंह-केसर-सटाभा रविमिव । परमेष एव सः । परमेष स्वं न मन्यमानोऽस्ति । तस्यात्र श्वशुर-वर्गस्य सद्भावाल्लज्जादिकारणैः स्वमपलपति । अन्यस्येदृशी शक्तिः क्व यया ५२ वीरा जीयन्ते । परं पितुः कोपदिकारणै xxx पमानः । स एषोत्रागात् । यतः - त्रयः स्थानं न मुञ्चन्ति, काकाः कापुरुषा मृगाः । अपमाने त्रयो यान्ति, सिंहाः सत्पुरुषा गजाः ।। २९१ मन्त्र्यादय प्रोचुः-दैव सत्यमेवं सम्भाव्यते । ततो राजा जगाद-सा कापि बुद्धिरस्ति यया कथमपि जीवनेष ध्रियते युद्धं विना यच्चकरणे नानर्थः । यतः - ___ महा-नदी-प्रतरणं, महा-पुरुष-विग्रहम् । महा-जन-विरोधं च, दूरतः परिवर्जयेत् ॥ २९२ तथा - अफलानि दुरन्तानि, सम-व्यय-फलानि च । अशक्यानि च कार्याणि, नैव कुर्याद् विचक्षणः ॥ २९३ तदा मुख्य-मन्त्र्यवोचत्-प्राध्वरं सुकरमेतद्धरणं देव । गजानामग्रे कः सबलो यतः - स धनी यस्य भूभागो, यस्याश्वास्तस्य मेदिनी । स जयी यस्य मातङ्गा यस्य दुर्गः स दुर्जयः ॥ २९४ जयत्येकोऽपि-गजोऽत्र, वाजि-लक्ष-चतुष्टयम् । तस्माद् गजा दले यस्य, तस्य हारिः कथं भवेत् ॥ २९५ ततः सर्वान हस्तिन आनाय्य कुम्भि-कुम्भ-शूलेन मेलयित्वा हस्ति-घटा-मध्यप्राकारे प्रक्षिप्य ध्रियते । इति मन्त्रिणोक्ते राज्ञाऽनुज्ञातं वरं वरमिति । आनीता गज-घटाः । वेष्टितोऽसौ । गजघटाः शनैः शनैरासन्ना विधीयन्ते हस्तिपकैः । कुमारः सङ्कीर्णेपपात । हृष्टा नृपादयो वदन्ति-भोः क्वयास्यसि सम्प्रति सङ्कीर्णे पतितः । ततो हसित्वा सदयः सिंह-नादं तथा ऽकरोद्यथा त्रस्ता गजा दिगन्तं प्रापुः । अङ्क शैस्ताडिता अपि न सम्मुखा बभूव । येषां गजानां बलेनास्य धरणी विषये महानूष्मा नूनं तेषामपि तेजो हतम् । अजा-वृन्द मिव नंष्ट्वा दिगन्तं

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114