Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 76
________________ ६६ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम दृष्टस्तावद्धर सिद्धि-प्रभावतस्तद्गतं तेजः सोढुमशक्तया तया भय-भीतया शीघ्रं पल्यङ्कादुत्थाय xxxx कुमार-पादयोः पतित्वा प्रणतम् । स प्राह-रे दुष्टे ! ब्रह्म-सुत - व्रत-हत्याकारिणि चाण्डालि अस्पषं मा मां स्पृश । दूरे भव । इत्युदित्वा गले धृत्वा भित्त्या सह पश्चादाच्छटिता। पुनरुत्थाय प्राह-तव दास्यस्मि। मा मां मारय । कुमारो जल्पति-रे वर्ष यावत् त्वयेयं रुद्धा किलिता च कृतेयं पीङ्यमानाऽस्ति । अस्या भोगास्त्याजिता । ब्राह्मणकुटुम्ब पीयमानं दृष्ट्वा तव हृदये करुणालवोऽपि नोत्पद्यते। दुराचारिणि, त्वं मारणार्हाऽसि । मुञ्चैनाम् । नोचेन तदा हरसिद्धैर्वीर - दत्तया क्षुरिकया तव नाशां कर्णौ च छेत्स्यामि । ततो भीता प्राह-सीकोत्तरीमुञ्चामि मुञ्चाभ्येनाम् यास्यामि । मुक्ता मया। इति वाचं दत्त्वा गता नंष्ट्वैकक्षणभात्रेण । ततो ब्राह्मण-पुत्री सज्जा बभूव । उत्थापितं मण्डलम् विसर्जिता गायनाः । बाला स्नापयित्वा भोजनं कारिता । ब्राह्मणकुटुम्ब प्रमुदितम् । सर्वेषामाधिर्भग्नोः । विप्रौघ स्तं कुमारं स्तौति अद्य मे सुबहोः कालात् श्लाघनीयमभुदिदम् । त्वत्-पाद-पद्म-सत्-स्पर्श-सम्पन्नानुग्रहं गृहम् । ३१५ पुत्री तदैव कुमारस्य दत्ता पित्रा । तेन स्वमित्राय ब्राह्मणाय परिणायिता । विप्रेण लक्षस्वर्णं दत्तम् । व्यवहारी चित्ते चमच्चक्रे । ततस्तं स्वगृहे नयति । दर्शितश्च स्वपिता गृहमध्ये मृतकरूपः । कुमारेणोक्तम्-यदि प्रज्वाल्यते तदा किं लभ्येते । श्रेष्ठी प्रोचे-प्रज्वालनेन किं बहुभिरप्यग्रे प्रज्वालितः । त्वं यदि प्रज्वालयसि पश्चाच्चेनागमिष्यत्ययं तदा द्विलक्षी सुवर्णस्य स्वां च कन्यां ददे । कुमारेणोक्तम्-एवं भवंतु । ततः पाश्चात्य-प्रहरार्धेऽवशेष-दिने तच्छवं लात्वा मित्र-त्रय-युतो गच्छनुवाच-भो श्रेष्ठि-पुङ्गव तव पितुः कर्पूगगुरू-चन्दनादिकमन्तिम भोगं xxx xx कुमार ऊचे-तेषां ज्वालकानां सदृशो नाहम् । श्रेष्ठिना मानिता भोगाः । कथमपि प्रज्वाल्य पश्चादागच्छन्तं वारय । कुमार एवमस्तु । ततस्ते गताश्चत्वारोऽपि शमशानभुवि । तावता सन्ध्याऽपतत् । कुमारो मित्र-त्रयमाह- रात्रौ व्यन्तरादयः प्रबला भवन्ति । एष तु व्यन्तराधिष्ठितोऽस्ति। तेनाधुनाऽस्य प्रज्वालने नाऽस्ति युक्तिः। ततोऽत्रैवैनं मुक्त्वा प्रतिप्रहरं जागृमः अन्यथैषोंऽस्मांश्चतुरोऽपि । वञ्चयित्वा पूर्ववत् पश्चाद्यास्यति । ततो मित्रैरुक्तम्-एवं भवतु । तथा कृते प्रथम वणिग् जागर्ति । शेषाः सुप्ताः तदा दूरे स्त्री-रोदनं श्रुत्वा स चिन्तयति-का स्त्री श्मशानेऽत्ररोदिति । गत्वा विलोकयामि। उत्थितः सन् चिन्तयति-मृतकं शून्यं मुक्तं पश्चाद् यास्यतीति स्व पृष्ठे बद्ध्वा जगाम । तत्र गतः शूली-प्रोतमेकं चौरं पश्यति । तत्पार्श्वे स्युपविष्टाऽस्ति । तस्य हस्ते घेबरादि दृष्ट्वा स पृच्छति-का त्वम् । किं रोदिषि देवकि । सा प्राह-भोः साहसिक मम पतिरेष शुल्यग्रे जीवनस्ति । अहं स्नेह-पाशादस्य भोजन-दानायागताऽस्मि । परं किं कुर्व एष उच्चो न प्राप्नोमि । स दयावानाह-मम स्कन्धे चटित्वा भोजय । सा तथा करोति । तदा मांसखण्ड मेकं तस्य स्कन्धेऽपतंत । स ऊर्ध्वं पश्यति । तावता सा चौर-देह-मांस-खण्डानि च्छेद

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114