Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 77
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् ६७ 1 I छेदं खादति । ततो रुष्टोऽसौ तां भूमावाहन्ति । ततो नश्यन्त्यास्तंस्याः करोऽसिना छित्त्वा पातितः । स करं विलोकते । तदा स्वर्ण - चुडि - कङ्कण - रत्नाभरणभूषितं तं दृष्ट्वा चिन्तयति - कस्याऽपि महर्द्धिकस्यैषा स्त्री । तं करं वालुकान्तः संगोप्य पश्चादागत्य स्थितः स्वस्थाने । एतावता प्रथमप्रहरकोऽभूत् । ततो द्वितीय - प्रहरे विप्रो जागर्ति । तावदेको राक्षसः श्याम देहः सप्ततालवदुच्चस्तस्याऽग्रे भूत्वा पुरं प्रति याति । तेनाचिन्ति-क्व यात्येष राक्षसो विलोकयामि । ततः स प्राग्वन् मृतकं पृष्ठे बद्ध्वा कृत- सुदृढ - परिकर -स्कन्धोऽनुययौः । साहसिकाः किं न कुर्वन्ति । स राक्षसो राज- मन्दिरं गत्वा राज्ञः सुतामादाय शीघ्रमेव पश्चाद्वलितो विप्रोऽपि तस्यानुपदं वलितः । राक्षसस्तां कन्यां सर्वतो गुफायां मुक्त्वा तस्या अग्रे गुफा द्वारच्छेदेऽस्थात् । चाटु वचनैस्तामर्थयति रागान्ध: । सा नानुमन्यते कथमपि । ततो रुष्ट राक्षसो वदति -रे दुष्टे मां नमन्यसे तदा स्मर तव रक्षकंम् । तव मस्तकं छेत्स्यामि । तावता स विप्रोऽपि राक्षस पृष्ठे प्रच्छन्नस्थितो विलोकयन्नस्ति । राजसुता सम्मुखस्था तं पश्यति । राक्षसस्तं पृष्ठस्थं न पश्यति । ततो राजकुमार्योक्तम्-आत्मभ्यां यस्तृतीयः स मम शरणम् । तयेत्युक्ते यावत् स राक्षसः पश्चाद् विलोकते तावत् पृष्ठस्थेन विप्रेणासि घातेन द्विधा कृतोऽसौ मृतः । स्वस्थाऽभूद राज - सुता । ततो विप्रेण पृष्टा सा-का त्वं । कस्य सुता । सा प्राह- अहमस्य पुरस्य नृपस्य विक्रमसेननाम्नः सुता लीलादेवीनाम्नी । ततः सन्धीर्य तां तत्स्थाने नीत्वा मुमोच । स पश्चादागत्य स्थितो मित्रपार्श्वे । एतावता द्वितीय-प्रहरोऽगात् । तृतीय- प्रहरे क्षत्रियो जागर्ति । शेषास्त्रयः सुप्ताः सन्ति । तस्य प्रहरकेऽग्निर्निर्वाणः । ततोऽनेन चिन्तितम् - यद्यग्निविध्यात स्तदा प्रभातेऽस्य मृतकस्य कृतेऽग्निरत्र कुत आनयिष्यते । अतोऽधुनैवानयामि इति विमृश्येतस्ततो विलोकते तावद्दूरेऽग्नि प्रज्वलन्तं पश्यति । ततः पूर्ववत् सोऽपि मृतकं पृष्ठे बद्ध्वा तत्र याति । तदा तत्र बहवो भूता मिलित्वा चुल्हकोपरि प्रौढ- गोलके क्षिप्रचटं रन्धयन्ति । त सर्वे परित उपविष्टाः सन्ति । अन्यत्र द्वाविंशति-पुरुषा रज्जुभिर्बद्ध्वा मुक्ताः सन्ति । ते पीडया करुण-स्वरं रणन्ति । ततः स क्षत्रियः साहसवान् तस्मादेव चुल्हकादुल्मुकं लात्वा तान्भूतान् प्रति धावितः । ततो नष्टास्ते सर्वेऽपि भूताः । साहसिकं प्रति कः प्रतिहर्तुं समर्थः 1 यतः - उद्यमं साहसं धैर्यं, बलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते, तस्य देवोऽपि शङ्कते ॥ ३१६ क्षिप्रचर - गोलकं बभञ्ज । ते पुरुषाः सर्वेऽपि च्छोटिता हृष्टा । पृष्टास्तेन भोः कुमारकाः-के यूयं । कुतो बन्धिताः तेऽप्यूचुर- वयं सर्वेऽप्यत्र राज्ञः सुता एतैर्भूतैः पापैरत्र भोजन-मध्येऽस्मान् शाक-पदे कर्तुं वयं बन्धित्वा मुक्ता अभूम अधुना त्वया बन्धनान्मोचिताः । अतः परं जीव्यते स तव प्रसादः । इति वदन्तस्ते । नगर- बहि: - प्रासादे स्थापयित्वा मुक्तास्तेन ।

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114