Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् वक्ति-तुम्ब वण-नगरादहमागां कुमार । तत्र पुर एको धनपतिर्व्यवहारी द्विधाऽपि हि यथार्थनामाऽस्ति । तस्य पिता वृद्धो मृतश्चिता-प्रज्वालितोऽपि प्रातह गृह-मध्ये तथैवागत्यसुप्तः । पुनः प्रज्वालितः पुना रात्रौ तथैवाऽऽगत्य सुप्तः । एवं ज्वालितस्य तस्य गता-गतं कुर्वतो वर्षमेकं समजनि । न कोऽपि विद्या-मन्त्रोऽस्ति यस्तं प्रज्ज्वाल्य पश्चादागच्छन्तं निवारयति । इयमपूर्वा वार्ताऽदृष्ट-श्रुत-पूर्वा । ततः सर्वमनापच्छय मित्र-त्रय-युत स्तत्र गतः कौतुकी xxxx तत्र नगर-प्रवेशे 'भुक्त्वा न मध्ये गम्यते ' इति वृद्धानां बुद्धि हृदये निधाय क्वोऽपि भोजनाय धान्य-पाकं कारयन्ति । भुक्त्वा स्वस्थीभूताः । यतो भुक्त्यनन्तरमेव सर्वाणि कार्याणि स्मरण-पथमायान्ति। उक्तं च -
भार्या-स्नेहः स्वर-विशद्ता बुद्धयः सौमनस्यं, प्राणोऽनङ्गः पवन-शमता दुःख-हानिर्विलासाः । धर्मः शास्त्रं सुर-गुरु-नतिः शौचमाचार-चिन्ताः, शस्यैः पूर्णे जठर-पिठरे प्राणिनां सम्भवन्ति ॥ ३१४
तावता पटह-ध्वनिः कर्ण-पथमागाद् । भ्रमन्निति वदति-यो धनपति-व्यवहारिणः पितरं ज्वालयति तस्य स्वां सुतां लक्ष-सुवर्ण-युतां स ददाति । ततः सदयवत्स-कुमारेण पूर्वज्ञात-स्वरूपेण स्वमित्रं प्रेष्य पटह [स्पृष्टः] । ततो व्यवहारी बह्वतिभाक् तं समित्रं गृहे नयति । मार्गे गच्छन् कुमारो महत्कलकलं गणिकानां कारित-गान-ध्वनि श्रुत्वा पृच्छति-किमत्र मण्डलं मण्डितमस्ति । व्यवहारी कथयति अस्यापि शङ्कर-विप्रस्य गृहे मद्वद् वर्षा-दिवस- प्रमाणमजनि मण्डलस्याऽस्य मण्डितस्य । कुमारोऽपृच्छत्-केन हेतुना । श्रेष्ठी वदति-अस्य विप्रस्य पुत्री सुन्दरी-नामधेयाऽति-सुरसुन्दरी-रूप सम्पद, नीलोत्पल-दल-दीर्घ-लोचना चन्द्र-मुखी बन्धूक कुसुमारक्त-कान्त-दन्तच्छदाऽस्ति । सा दुष्ट-सीकोतरी-गृहीता विविध चेष्टां करोति तन्मोचनायानेके महा-मन्त्रवादिनो भूयांसोऽपि प्रतीकारानकार्षः । परं सा न मुञ्चति । कन्या न भुङ्क्ते न शेते खट्वायामुपविश्य तिष्ठति । रक्तलोचनैः सर्वान् भापयति । प्रत्यहं गानमेकं च कारयति । यदि गायनं न कारयन्ति तदा भृकुटिं कृत्वा पित्रादीनां ब्रूते-रे ममाऽग्रे गानं न कारयिष्यथ तदा सर्वान सम्मX मारयिष्यामि । तेनावर्षादवेत्थं गानमेकं भवदस्ति । स विप्रोऽपि पटहेन वक्ति-यो मम पुत्री सज्जीकरोति तस्यैतां स्वर्ण-लक्षेण सह ददामि। परं न कोऽपि सज्जयति । व्यवहारिमुखाच्छ्रुत्वा कुमारोऽवदत्-तवगृहे पश्चाद्वंस्यते । प्रथममस्य गृहे गत्वा सी कोत्तरी मोच्यते । व्यवहारी जगादभौः क्व यास्यसि । तव कोऽत्र प्रतापे अनेकैर्महा-मन्त्र-ज्ञैरेषाऽ साध्य-प्रतिक्रियेति कृत्वां मुक्ता । कुमारोऽवदद्-अस्तवेवम् परं मूषकोऽपि पोट्टलिक-मध्ये गण्यते कदाचितः । अतः कौतुकं विलोक्य गम्यते। गतस्तत्र हरसिद्धिं मनसि संस्मृत्य । यावद् बाह्मण-पुत्र्या स आगच्छन्
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114