Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 82
________________ ७२ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम पाशकाद्यत्र नाऽस्ति । तेनोक्तम् मां मुञ्च यथा तत् सर्वमानयामि । मयोक्तम्-तव मुक्ति |लनानन्तरमेव । ततस्तेन तत्रस्थेनैव स्वबाहू विस्तार्य नगर-मध्यात् कुतश्चित् स्थानात् स्वर्णपट्टाद्यानीय मदने मुक्तं प्रोक्तं च -रमस्वेति। मयोक्तम्-पणमोचन आवयोः शिरसी एव भवताम् । तदङ्गीकृत्य सोऽपि मृतक-वेतालो रन्तुं लग्नः । मया तत्कालमेव स द्यूते जितः । खङ्गघातेन तस्य शिरो लूनं च । व्यङ्गदेहत्वात् तन्मृतकं मुक्त्वा स नष्टः । पतितं शवं भुवि। मया तदैवाऽवसरं प्राप्य ज्वलत्-तृण-पूलतो ज्वालितं गतम् । राजा चमत्कृतः पृच्छति-क्व तत् पट्टादिकं कुमारेण बहिःस्थानकादानीयतद् र्दशितं राज्ञे। नृपोऽपि तद् द्वीक्ष्योपलक्ष्य चाऽऽहअस्मदीयमेवैतद् रमेण-योग्यं । ततो भाण्डागारिकं प्राह-त्वया कि स्वर्ण-पट्टादि स्थाने न मुक्तं। सोऽवादीत देव मया भाण्डागार-मध्ये मुक्त्वा कपाट-तालकादि स्वहस्तेन दत्त्वा पुनस्तद्रक्षकाणां शिक्षा दत्त्वा स्वगृहेऽगामि । नृप आह-ततः स्थानादानय । ततः स तत्र गत्वा पश्यति तदा तत्र तत्र किमपि। ततः सभा-जनो वदति-देव तेन वेतालेन स्वबाहू विस्तार्य दैवत-शक्त्या कपाटे दत्तेऽपि गृहीतमेतत् । इत्यादयश्चमत्कृता वदन्ति । एतेषां चतुर्णां रात्रि-चतुर्याम-भवं चरित्रं सर्व-जन-कौतुक-कारि । महा-सत्त्वशालिन एते । यद्वा पृथिवी-पीठे नास्तिर्नाऽस्ति कस्यापि वस्तु नः। यतः - दाने तपसि शौर्ये च, विज्ञाने विनये नये । विस्मयो नहि कर्तव्यो, बहुरत्ना वसुन्धरा ॥ ३२४ तथैवं सत्यपि सूरा जयम्मि विरला, उदारचित्ता तओ य विरलयरा । अबला-भीरूआणं, सरणपया ते वि विरलयमा ॥ ३२५ विरला जाणंति गुणा ।। (इत्यादि) पुना राजा जजल्य-अस्मद्गृह एव वेताल-राक्षसा अलगन् । नाऽन्यत्र स्थानमभूत् । इतश्च तदैवाऽवसर एकः पुरुषो रूपवान् नारी-द्वय-युतो द्वारपाल-निवेदितो राजादे शादन्तः सभं प्रविवेश । आसनादिना मानितोऽयं राज-प्रणाम-पूर्वभुपविष्टः । राज्ञोक्तम्-विज्ञपयतु स्वकार्यम् । एकया प्रोक्तम्-देव अयं मम भर्ताऽनयाऽपरया मम रूपं विधाय भोलावितः । एष त्वन्तरं न लभते । द्वितीयया भणितम् देव एषाऽलीका अहं सत्यभार्या । निर्णयो विधीयताम। किमपि न जानाति । सदयकुमारेण भर्ता तर्योदूरे कृतः । प्रोक्तम् च-अनयोर्याऽत्रस्थैवामुं स्पृशति तस्या भर्ता । सत्या सा सचिन्ताऽभूतअलीकया व्यन्तर्या स्पृष्टोः । देव-शक्त्या सा निष्कासिता। सभा चमत्कृता-अहो कुमारबुद्धिः । दाणेसराण साहसिआणं दक्खाण रूववंताणं । तस्स कुमरस्स रेहा, पउरेहिं दिज्जए पढमा ॥ ३२६

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114