Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 70
________________ ६० हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् विणए सिस्स परिक्खा, सुहड- परिक्खा य होइ संगामे । वसणे मित्त-परिक्खा, दाण - परिक्खा य दुक्काले ॥ २८६ मित्ताणममित्ताण वि, नज्जइ विहुरे जहट्ठिअं तत्तं । सत्थावत्थे समए, धणीण मित्तं जयं सयलं ॥ २८७ जानीयात् प्रेषणो भृत्यान्, बान्धवान् व्यसनागमे । मित्रमापदि काले च भार्यां च विभव-क्षये ॥ २८८ तच्छ्रुत्वा पञ्चापि वीरा अधावन् तत्साहाय्याय । अजा x x x x श्वमश्वेन स्थं रथेन गजं गजेनाहत्याहत्या-मर्दयत् । शूलीपाषाणवर्षणं करोति । शिलाघातेन कटकं चूर्णयति । शेवालः शीतज्वरं करोति । तज्जाड्येन कम्पित-शरीराः पदमपि चलितुंन शक्नुवन्ति । घोरान्धकारो मध्याह्नेऽपि । अन्धकार - करणादन्धानिवाऽकरोच्चमूभयन् । ततो विलोककनगरलोकास्ते नश्यन्ति पतन्ति च पुरमपि क्षुब्धम् । हरसिद्धि - प्रभावाद् द्विपञ्चाशदपि वीरा भग्ना । वीराणामुत्तारितं नीरं तेन । ततः स्व-बलं भग्नं नश्यश्च दृष्ट्वा सालवाहन नृश्चिन्तयति सङ्ग्रामे सुभटानां तु, कवीनां कवि-मण्डले । दीप्तिर्वा दीप्ति-हानिर्वा, मुहूर्तादेव जायते ॥ २८९ यतः तथा मम बलं पुरा केनाऽपि भग्नं नाऽभूदिदानीं तु ५२ वीरयुतं सर्वप्रकारेण भग्नमिति चिन्ताकुलचेता इतस्ततो विलाकयन्नस्थात् । - थल-बल - सिद्धि - बुद्धि जो जाणइ, ताण वित्राण बहुल वक्खाणइ । हय-गय-नर- नरिंद जो वाहइ, पडिओ विनाणी सो टगमग चाहइ ॥ २९० ततोऽस्य कुमारस्यापूर्व-रूप- लावण्यलक्षण - पराक्रमादि दृष्ट्वाऽचिन्तयत्-ना यं चौरो न च सामान्य-मानवो वा । किन्तु कोऽपि वीरेभ्योऽधिको वाऽऽराधित- वीरो यद्वा देवो विधा वा सम्भाव्यते । तस्माद्नेन सह युद्ध करणं न श्रेयस्करम् । अथेतो राजा युद्धं निषेधयामास । प्रोक्तं च भूमिवल्लभेन - भो वीर त्वमात्मानं प्रकाशय । स न प्रकाशयति स्वंम् - ततो नृपः कामसेनामाकार्य पृच्छति- हे कामसेने अयं नरस्तव गृहे कतिभ्यो दिनेभ्यो यावत् तिष्ठति किमप्यस्य कुल - गोत्र - नाम - स्थानादिकं त्वया ज्ञायते । सा प्राह- देव गृहे मम चत्वारि दिनानि स्थितः । अस्य कुलगोत्रादिकं तु न वेद्मि । परमस्यासिर्नामाङ्कितो मम गृहेऽस्ति । राज्ञा स आनायितो विलोकितश्च । तदा तत्र सुवर्णाक्षरे: सदयवत्स - कुमारस्य खङ्गमिति लिखितं दृष्टम् । राज्ञा प्रोक्तं- भो अनेनाभिज्ञानेन त्वं सदयवत्सोऽसि । मन्य स्व मा वेति । कुमारोऽब्रवीद्अहो वचन - चातुरी वरीयसी । क्व सालवाधीशसुतः क्वाहमेकाकी चौरो वीरः । राजाऽऽहभोस्तवासि-पट्टि कायां सदयवत्सस्य नामास्ति । सदयो ब्रूते - तत् सत्यम् खङ्गं सदयवत्सस्य

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114