Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
६२
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् गता अमी । इति चिन्तयते राज्ञे विज्ञप्तं सर्वैः-देव नायं धर्तुं शक्यते कैरपि प्रकारैः । ततश्चमत्कृतमना नृप आयुध-सन्नाह xxx टोप-गजादीस्त्यक्त्वा पाद-चारेण तत्सम्मुखमागात् । ततः कुमारोऽपि तं तथाऽऽगच्छन्तं दृष्ट्वा सम्मुखं गत्वा प्रणाममकरोत् । नहि सुकुलोद्भवा विनय-क्रियातो भ्रश्यन्ति । राज्ञा सस्नेहमा लिङ्गितः । नृपस्तं पराक्रमादिभिः सदयवत्सं ज्ञात्वा हृष्टो बहुमानपूर्वं स्वागतोदन्तमपृच्छत् । दृष्ट-ताद्दक्-पराक्रमेण चमत्कृताः पौर-लोकाः परस्परं जल्पन्ति-नासौ पूर्वमेवामानं प्रकटीचक्रे पराक्रम-मुखेन स्वं प्रकाशयामास । युक्तं चैतत् -
अकृत्वा पौरुषं या श्रीविकाशिन्याऽपि किं तया । जरद्धवोऽपि वाऽश्नाति, दैवाद्भूमिगतं तृणम् ॥ २९६
राज्ञा पृष्टम् लोन-कञ्चकाङ्गीकरणाद् युद्ध करणत्वादेकाकि त्वत्-स्वरूपम् । प्रालपत् सदयो वीरपञ्चकार्पितकञ्चकस्वरूपं हस्ति - वध-मन्त्रि-प्रेरित-राज-कोप-भवनादिस्वरूपं च। तच्छत्वा नपोऽजल्पद्-अहो पितुः स्नेहो लोक-वचनैः पुत्रस्य देशनिष्कासनं करोति कथम्। कुमारो जगाद-पितुः किं दूषणम् । कर्मण एव दूषणम् -
यतः - अस्ति बुद्धिः परेषां हि, xxx वर्तते क्वचित् । शक्रोऽपि कोपितं कर्म, नैव सान्त्वयितुं पटुः ॥ २९७ प्रददात्युत्सवै शोकं, शोके सम्मद-सम्पदम् ।। अन्यथा विदधत् सर्वं, बलीयः कर्म केवलम् ॥ २९८ अवश्यंभावि-भावनां, प्रतीकारो भवेद्यदि ।
तदा दुःखैर्न बाध्यन्ते, नलराज-युधिष्ठिराः ॥ २९९ राजाऽप्याह - एतत् सत्यमेव प्रागर्जितं को लङ्घयति । यतः -
लक्ष्मीर्माता पिता विष्णुः, स्वयं च विषमायुधः । तथापि शम्भुना दग्धः, प्राकृतं केन लक्ष्यते ॥ ३०० उअणं भुवणक्कमणं, अस्थमणं तह य एग-दिवसम्मि ।
सूरस्स वि तिन्नि दसा, का गणणा इयर-लोयस्य ।। ३०१ दुष्ट-मन्त्रिणः कीद्दक् कथनम् । परे प्रोचुर्देव खला एवंविधा एव ।
यतः - सर्पः क्रूरो हि जीवेषु, सर्पात् क्रूरतरः खलः । मन्त्रोषध-वशात् सर्पः, खलः केनोपशाम्यते ॥ ३०२
Loading... Page Navigation 1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114