Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
३७
कुमारः पुनः प्राह-के यूयं किमत्र गुप्तास्तिष्ठथ ते प्रोचुर-वयं चौरा विद्या-सिद्धाः । अजक-आमय-मूली-सेवाल-घोराधरा-कारनामानो वयं पञ्चैवाऽत्रस्थाश्चौर्येण धनमाहृत्य विलसामः । ततः सदयश्चलति । तैरुक्तम्-हे सत्पुरुष गृहाण किमपि । स न गृह्णाति । तावत् तुष्टेनैकेनादृष्टं पद्मिनी-पत्र-वेष्टित एकः कंचुको-लक्ष-मूल्य-रत्न-मौक्तिक-खचितः फलक-खोलीआ-मध्ये क्षिप्तः । कुमारो न वेत्ति । निःसृतः सभार्यः सः । तैः प्रोक्तम्-तव किञ्चित् कार्यं महत् कष्टं वा पतति तदा - अञ्जनसिद्धि-रससिद्धि-युद्धबुद्धि-जलतारिणी-गिरिविदारिणी-वैरिदमिनीतालो-द्धाटिन्या काशगामिन्यादि बहु विद्यावतोऽस्मान् स्मरेः यतस्त्वमस्माकं परम मित्रम् ।
क्षीरेणात्मगतोदकाय स्व-गुणा दत्ताः पुरा तेऽखिलाः । क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः । गन्तुं पावकमुन्मतेस्तदभव दृष्ट्वा तु मित्रा पदं,
युक्तं तेन जलेन शाम्यति पुनमैत्री पुनस्त्वी दृशी आरम्भगुर्वी ॥२१०
कमारेणोक्तोमिति । चलितश्चाग्रे एकं शून्यं पुरं ददर्श । मध्ये गतश्चतुष्पथे हट्ट-श्रेणि धन-धान्य-सम्भृतां दृष्ट्वा चिन्तयति-यदि कोऽपि मिलति तदा निर्मानुषं पुरस्वरूपं पृच्छयते। परं न पश्यति नरं कमपि । ततो राज-भवनं गतः । सन्ध्यासमये षष्ठभूमौ स्थितस्तत्र । रात्रौ पत्नी निद्रां गता । कुमारो जागति । इतश्च मध्यरात्रौ समीप-वासे काऽपि स्त्री करुणस्वरेण रोदिति । तत्स्वरूप-ज्ञानाय तत्र गतः स । तथा दृष्ट्वा पृष्टा सा-कि रोदिषि । का त्वमत्र पुरे। सा वक्ति - नाहं यस्य तस्याग्रे रहस्यं वच्मि । त्वं तु भाग्याधिकस्तेन तवाग्रे कथयामि । परमधुना रात्रिः। रात्रौ तु रहस्यं भाग्यवतोऽप्यग्रे न वाच्यं यतो नीतिशास्त्र उक्तं -
दिवा निरीक्ष्य वक्तव्यं, रात्रौ नैव च नैव च ।
संञ्चरन्ति महाधूर्ता, वो वर रुचिर्यथा ॥ २११ कुमारेणोक्तं कथमेतत् । सा प्राह-उज्जयिनीपुर्यां विक्रमार्कस्य राजसभा-शृङ्गार-भः पंच-शत-पण्डित-मुख्यो वररुचि-नामा-पण्डितश्चतुर्दश विद्या पात्रम् । अन्यदा राज्ञा स्वक्रीडा-शुको विदग्ध-मुखमण्डन-नामोऽन्यराज्ञः पार्श्वे लेखं दत्त्वा प्रेषितो गगनाध्वना कृतकार्य: पश्चाद्वलमानः पद्मिनी पुरे कस्यापि प्रौढेभ्य-गृहवेदिका-भित्ति-भागे विशश्राम । तत्र रम्भाकारं कन्या-वृन्दं व्यलोकयत सः । तन्मध्य । एकया प्रोक्तम्-अयंशुकः श्रीविक्रमनृपस्य जीवितादपि वल्लभो विदग्धमण्डनोऽधीती नामतश्च । ततस्तद्वयस्याभिः पृष्टम्-कथं वेत्सि। साऽऽह उज्जयिन्यां मातुलस्य गृहस्थया प्राग्दृष्टः । अत्र मम पितृगृहमवन्त्यां मातुः पितृगृहं । सा हृष्टा वक्ति-अहो सुकराज आगच्छ ममोत्सङ्गमलङ्कुरु । तत उड्डीय तदुत्सङ्ग उपविष्टः । सा संवाहनां करोति तस्य कसलप्रश्नपूर्वकं-अहं तव दर्शनात् सनाथैव जीविता ।
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114