Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
३६
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम शिला-पृथक्करणे तु किं दुष्करं पौरुषवताम् । ते पञ्चाऽपि चमत्कृताः कथयन्तिवरमागतोः । अत्रोपविश । कौतुकं क्रियते । उपविष्टः स । तैरुक्तम्-द्युत-रमणं वेत्सि कुमार ओमिति वक्ति । तैरुक्तम्-रम्यते । स आह-वरं । परं मम पार्वे पण-मोचना/ नास्ति । तैरुक्तम् सर्वेषां मस्तकमेव पणोऽस्तु । कुमारेण चिन्तितमेते कौटिल्येनैवं वदन्ति । यतः -
आकारिङ्गिःतैर्गत्या, चेष्टया भाषणेन च ।
नैत्र-वक्त-विकारेश्च, लक्ष्यतेऽन्तर्गतं मनः ॥ २०४
कौटिल्यं त्वेतेषां मस्तकेष्वेव पतिष्यतीति कुमारः प्राह-एवं भवतु । ततो द्यूतेन हरसिद्धि-प्रभावात् पञ्चानामपि शिरांसि जितानि । तैरुक्तम्-गृहाणास्माकं शिरांसि । ततः कुमारो वक्ति - भोः प्रायो मित्रैर्धातृ-बन्धु-वगैः सह प्रीत्या रम्यते । तेन युयं मम भ्रातृतुल्याः ।
यतः -
सहोदर सहाध्यायी, मित्रं वा रोग-वालकः ।
मार्गे वाचा कृत-प्रीतिः, पञ्चैते भ्रातरः स्मृताः ॥ २०५
तेन भवतां शिरांसि कथं छिनद्मि । तेन हृष्टा जीवितदानेन वदन्ति-भो अद्य-प्रभृति यज्जीव्यते स तवैव प्रसादो । वयं तव किङ्कराः । त्वं स्वाम्यस्माकम् । वयं तु तव द्रोहं चिकीर्षवः पापिनोः । द्रोहोऽस्माकमेवोपरि पपात ।
यतः -
द्रुह्यन्ति ये महात्मभ्यो, द्रुह्यन्त्यात्मानमेव ते ।
सूर्येन्द्रग्रह-द्रुग्-हुः, शीर्ष-शेषोऽभवन् न किम् ॥ २०६ तथा -
सौम्ये विरूप-चिन्तायामपि स्वस्य विपद्भरः ।
दधि-मन्थचिकीर्मन्थः स्त्रीभिर्बद्धो निरीक्ष्यताम् ॥ २०७
कुमारः पृच्छति-कथं ममोपरि द्रोहश्चिन्तितः । तैः सत्यमेव स्व-चिकीर्षित-कृत्य मुक्तम् परमस्माकमेव तदभूत् । त्तव रक्षा दैवेन कृता यतः -
बप्पईडा ! वड भूस्तरुं (?) किम राखिसि अप्पाण ? । तलि आहेडी संचरइ, झय(?)सिरि भमइ सींचाण ॥ २०८ आहेडी सरपिइ डसिउ, सर लागु सींचाण । बापईउ उडी गयउ, इम राखिउ अप्पाण ॥ २०९
Loading... Page Navigation 1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114