Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 62
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम न शक्नोमि ! मूर्च्छवागच्छति । ततो नाखूआकस्य सर्वशिक्षां दत्वा स एवागतः प्रहिताः । अहं पश्चाद्वलितः । पित्रोक्तम्-वरं कृतम् । ततो निःशङ्कं स यक्षस्तद्वध्वा सह रमते । त्रि-चतुराणि वर्षाणि जातानि। ततस्तस्या गर्भोऽजनिष्ठ । औदारिक-वैक्रिय-देहयोोंगे गर्भोत्पत्तिर्जायते। कियद्दिनैः श्रेष्ठि-सुतः पश्चादागतोऽसंख्य-धनमर्जयित्वा । लोका वर्धापनिकां मार्गयन्ति-श्रेष्ठिन् तव पुत्रोऽद्यागात् । श्रेष्ठी चिन्तयति-लोका न जानन्ति मम पुत्रों गृह एवास्ते। तमागतं ज्ञात्वा व्यन्तरो नष्ट्वा गतः। पिता सम्मुखोऽगात् । तत्र स्व-सुतं दृष्ट्वा [व्यचिन्त यत्-] केनापि दुष्टेन व्यन्तरेण पुत्र-रूपं कृत्वा छलितोऽस्मि । [स] कृष्ण-मुखो बभूव लोकापवादो भविष्यतीति। चिन्तातुरं मुखं दृष्ट्वा पुत्रः प्राह-तात बहु-वर्मदागमने तव न हर्षोल्लासस्तत्कारणं किम् । गृहे गमनानन्तरं कथयिष्यामीति वारित । गृहागतस्य पुत्रस्य व्यन्तर-कपटस्वरूपं कथयति । सुतेनोक्तम् - तात व्यन्तर-स्वरूपं पुराऽप्यहं वेद्मि । पिताऽऽह-यद्येवं जाननभूस्तदा ममेतत् पुरो न प्रोक्तं कुतः । सुतेनोक्तम्-लज्जया नोक्तम् । ततो गर्भा जातः । स न बहिस्त्यज्यते । तद्भाग्येन याद्दम् भवतु । ततः पुत्रो जातो रात्रौ दुकूलाच्छादितो वाटिकान्तर्मुक्तः। तदैवोज्जयिनीपुर्यधिष्ठात्रीदेवी हरसिद्धिराकाशे यान्ती यान(स्खलन)ततोऽधो विलोकते । दृष्टः स बालो लक्षणालङ्कृतः । देव्या स्वपुत्रत्वेन प्रपन्नः प्रत्यागच्छन्त्या मया ग्राह्य [इति विचिन्त्य] काकाद्युपद्रव-रक्षार्थ घट-वाकपटे (१ खर्परेणा) ना च्छाद्य मुक्तः । प्रत्यागतया गृहीतः । पालनाय वाटिकाधिप-मालिकायापितः । अर्पित । तेन खर्पराच्छादितत्वात् खापर इति नाम दत्तम् । सप्ताष्टवार्षिक: सन् देव्या नानारसौषधी: पायितः रात्रौ वासुदेव कटकेनायजेयो दिवसे तणेनाऽपि प्रियस इति वर-दानं ददे देवी। उज्जयिनी नीतर-तत आरभ्य गिरिनारं यावत् सुरङ्गा दत्ता, तत्र मुक्तो वधितो देव्या । दिवा तत्रैव तिष्ठति रात्रौ चौर्यस्य व्यसनं समजायत । नगर- मध्ये चौर्यं करोति । लोकैविक्रम-नृपाग्रे रावा कृता । राज्ञा तलारक्षमाक्रोश्य रक्षा कारिता। परं चौरो न लभ्यते । इतश्च नवलक्ष-तिलङ्ग-देशाधिपस्य तैलप-देवराज्ञः पुत्री शृङ्गारदेवी । तत्पाणिग्रहणाय जगाम विक्रमः, भट्ट मन्त्र्यादि-प्रधानानां पुरं भलाटय । राजा तां परिणीय कालेनागाच्च-मुहूर्त्ताभावादुद्यान-वाटिकायां स्थितः । मन्त्रि-प्रभृतीभ्या मिलनायागुः । पृष्टं पुर-समाधि-स्व रूपम् । लोकैरुक्तम्-सामस्त्येनाधिरस्ति, चौरैः सन्तापितो लोकः । राजाऽऽह-तलाराः किं कुर्वन्तः सन्ति । लोका वदन्ति-रङ्का रङ्कानां बाहो विलग्ना सन्ति । एतैः किं स्यात् । राज्ञा तदैव प्रतिज्ञाऽग्राहि-चौर-निग्रह-करणं विना पुरान्तः-प्रवेशं न करोमि । तां नवोढां राजा तैः सार्धं गृहे प्रेषयति स्म । खापरेण तज्ज्ञात्वा मार्गत एव तामाहृता सुरङ्गान्तर्मुक्त्वा । हरसिद्धि-प्रासाद-मत्तवारण उपविष्टोऽपर-पञ्च-चौर युतः । राज्ञा लोकेभ्यो राज्ञी-हरणं श्रुत्वाऽचिन्तिमया स्व-राज्ञी रक्षणं कर्तुं न पार्यते कथं लोकरक्षणं करिष्ये । ततोऽग्नि-वेतालं स्मृत्वाऽन्धकारपटमानाययति । तेन स्वमाच्छाद्य खङ्ग-पाणिर्हरसिद्धः प्रासादेऽगात् । तत्र स दृष्ट चौरं ज्ञात्वा चौर-रूपं कृतं राज्ञा । मिलिताः परस्परम् । तन्मुव्येन पृष्टः-क्व वससि तेनोक्तम्आसन्न-ग्रामे।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114