Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम
यतः -
व[य]रह हवइ राडी मीठी, वयरह मीठी सारि ।।
प्रेमह मीठउं रूसणुं, जूअह मीठी हारि ॥ १ ॥ २६२ तेन तेऽधुना जयाम जयामेति चिन्तयन्तो बहु बहु स्वर्णं पणी कुर्वन्ति । सदयो जयत्येव। ततो मित्राय कियत् स्वर्णं दत्तम् । बहु गृहीत्वा दोसी-हट्टे गतः । पट्टकूलादिसार-वस्त्राणि गृहीतानि स्वकृते पत्नीकृते च । गान्धिक-हट्टा कर्परक-सिन्दूरादि गृहीतम् । सौवर्णिक-हट्टे । विविधाभरणानि जगृहे । सर्वमेकत्र कृत्वा सोमदत्त-श्रेष्ठि-हट्टेऽमुचत् । यदा मार्गयामि तदाऽर्पयेरित्युक्त्वा। शेषं स्वर्ण वैश्यायायर्पयति । एवं चतुर्भिदिनैर्लक्ष संख्याधनमर्जितवान् । ततः पञ्चम-दिने प्रातरेवोत्थाय सदयः स्व-फलकासी जगृहे । रजोभृतं हस्तेन प्रस्फोटयति । कामसेनया पृष्टम् (अय) फलकासी कुतो-हेतोर्गृहीते । कुमारः प्राह-चलिष्यामि। सोचे-तव चलनेऽहं म्रिये । नाऽहं चलनाय ददे । इति तया निषिध्यमानोऽपि चलत्येव । तदा सा प्राह -
वसिऊण मज्झ हियए, जीअं गहिऊण कत्थ चलिओ सि ।
हे पहिय पंथ-मंडण, पुणो वि तं कत्थ दीसिहसि ।। २६३ इत्याद्युक्तोऽपि न तिष्ठति । ततस्तया फलकं गृहीतम् । स न मुञ्जति । इत्थमितस्तत आकृष्यमाणात् फलक-खोलीआमध्यादेकं शुष्क-पद्मिनी-पत्र-वेष्टितं गुच्छलकं पपात कुमारेणाज्ञातम्। तावता वेश्ययौत्सुक्याद्गृहीतमुद्वेष्टितं च । मध्ये मौक्तिक-जडितं कञ्चुकं पश्यति । हृष्टा सा मार्गयति । कुमारोऽपि चिन्तयति-नूनं तैः पञ्च-वीरैरेव ममाजानतोऽयमत्र फलके क्षिप्तः । लीला-गर्भेश्वरः सत्यः-तस्यायर्पयति ।
यतः -
कियती पञ्चसहस्री, कियन्ति लक्षाणि कोटिरपि कियती ।
औदार्योन्नत-मनसां, रत्नवती वसुमती कियती ।। २६४ ततोऽक्का रुष्टा व्यवहारि-५१६-अनापन-दूनाऽपि चिन्तयति-अयं बुद्धिमान् दान शौण्डश्च । कीद्दक ५१६ किञ्चैकदानेन बहून्यपि ५१६ दत्तानि युगपदेवानेन । ततोऽक्काऽऽशिषं ददौ । अत्याग्रहेण स्थापयति तथा-पि कुमारो न तिष्ठति पल्या अग्रे पञ्चम-दिने निश्चया-गमनप्रतिज्ञा-करणात् । ततस्तस्य निश्चय-गमनं ज्ञात्वा कामसेना प्राह-यदि यास्यस्येव तदा भोजनमकृत्वा गन्तुं न दास्यामि । ततो भोजनार्थं स्थितोऽसि-फलके तत्रैव मुक्त्वा द्यूत-स्थाने गतश्च द्यूतेन धनार्जनैक-रसिकत्वात् । तावता कामसेना दासीनां भोजन-सामग्री-करणायदशं ददौ । स्वयं राज्ञः सेवावसरे जगाम । तमेव कञ्चकं वर्य-वस्त्राभरणानि परिधाय पर्यङ्गिकारूढा याति ।
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114