Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 64
________________ ५४ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् पासा वेसा अग्नि जल, ठग ठक्कर सोनार । ए दस न हूइ अप्पणां, मंकड बडूअ बिलाड ॥ २६७ तदादेशेन तलारस्तां दृढं बद्धा चौर-निग्रह-स्थानं शूलिका-स्थलं नाम स्थलं प्रति चचाल । तस्याः शेष-परिवारः शीघ्रमकायै तत्स्वरूपमकथयत् । अक्का वदति-अरे कामसेनायाः केन हेतुना शूलिकाभेदं कारयति नृपः । परिवारेणोक्तम्-कञ्चक-पदे । अक्काऽऽह-स कञ्चकदाताऽद्योप्यत्राऽस्ति । तस्मिन् सति कामसेनायाः कः सम्बन्धो दण्डकरणे । तदैव द्यूतस्थानस्थं तं कुमारं प्राह अतिक्रोधाकुला-तव कञ्चलिकां ज्वालय या कामसेनायाः कलिः । कुमारः प्राह-कथं कथम् तया प्रोक्तम् तत्स्वरूपम् । तावता तलारेण शूली-स्थाने नीता कामसेना । शीघ्रं धावति सदयस्ततः स्थानादेव । यावता खङ्ग-ग्रहणायायाति तावता तस्या मरणं भवेत्। तत्र गतः प्राह-भोस्तलार नहीयं चौर-दण्डाहा॑ । कञ्च कचौरोऽहम् । शूकाराः क्षेत्रं खादन्ति पट्टक - मुखानि कुट्टयसि । मुञ्चेताम् । मम कथय यत् कथनीयमित्यादि । कामसेनाबन्धनानि च्छिनत्ति । तां मुमोच बलेन । तलारो रुष्टस्तन्मारणार्थं धावति । ततः कुमारेण कङ्कलोह-क्षुरिकया तन्नाशां छित्त्वा प्रोक्तम्-रे वराक त्वं मुक्तोऽसि जीवन । किं तव रङ्कस्य घातेन । परमेतावता मारित एव जानीहि । एवंविधोऽपि स्व-कुटुम्बाय मिल । याहि याहि स्वमुखं लात्वा । कथय तव राज्ञश्चौरो लब्ध इति । स्वयं कुमारः शूली-स्थाने स्थितोऽसि-फलक-रहित एव । तलारनाशा-छेदं श्रुत्वा केऽपि लोका हृष्टा वदन्ति-वरं जातं यत एष कोट्टपालो जनानां बलेन वृषभशकट-खट्वादि-ग्रहणेनोद्वेजकोऽभूत । तलारो राज्ञः पुरो गत्वा मुखं दर्शयति । राज्ञा पृष्टे कामसेना-मोचन-स्वरूपमकथयत् । राजा पृच्छति-केनमुक्ता । स वक्ति-नोऽहं वेद्मि । ततो रुष्टो राजा बहु-कटक-प्रेषणेन तन्निग्रहाय सेनानी प्राहिणोत् । कटकेन वेष्टनं करोति तन्मारणाय सेनानीः । युद्धं बहुवेलां यावद्धरसिद्धि-देवी-प्रभावात् क्षणात् कटकं भग्नं कुमारेण । तेषामेव धनुर्बाणान् गृहीत्वा तैरविद्धान् नामुचत कटक- भटान् कानवि । ततो नगर-जनो बालगोपालादिः कौतुकं-विलोकनाय तत्रागात् । लोकास्तत्पराक्रमं दृष्ट्वा वदन्ति-अहो एष चौरः सर्व-कटकेनाऽपि जेतुं न शक्यते । तावता तत्रा-गतेन सोमदत्त-व्यवहारिणा स उपलक्षितः । अहो एष स एव येन मम ५१६-झगटकं निर्वालितं निजबुद्धया । ततोऽहमस्य पाāगत्वा पृच्छामि किमेतदिति । ततस्तलारस्य कथयित्वा तदनुमतिं च गृहीत्वा गतः कुमारान्तिके प्रोक्तं च श्रेष्ठिना-भो नरोत्तम मामुपलक्षयसि । कुमारः प्राह-ओमिति । श्रेष्ठी पृच्छति-कोऽयं तवाऽनर्थ-प्रकारः । केन वा चौरस्या ल दत्तं तव । कुमारो हर्षोज्ज्वल-चित्तः प्राह-श्रेष्ठिवरमया स्वयमेवाङ्गीकृतं कौतुक-करणाय । श्रेष्ठी ब्रूते-अहो वरं कौतुकमनेन प्राणनाश एव स्यात् । को निर्वाहयिष्यति। कुमारो वक्ति-अहमेव निर्वाहयिष्यामि । श्रेष्ठी वदति-त्वं चतुरो-प्यतिविरूपं कृतवान् ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114