Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
५६
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् कुमारो वक्ति-नाहं तव झगटकं विलगाड्य यास्यामि । यतो नाहं गज-समो ।
यथाः -
गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । __ विश्रम्य तं द्रुमं हन्ति,तथा नीच: स्वामाश्रयम् ।। २७२
श्रेष्ठी प्रोचे-भो अद्य तव स्थानेऽत्राहं स्थितोऽस्मि । त्वमेव स्वं कार्यं कृत्वाऽऽगच्छ। सदयेनोक्तम्-एवं कल्ये निश्चयेन गमिष्यामि । ततः श्रेष्ठी तलारक्षमा कार्य प्रोक्तवान्-हे तलारः राज्ञोऽग्रे कथय सोमदत्त श्रेष्ठी चौरस्य प्रतिभूर्भूत्वैकं दिनं याचते, तं मोचयन्नस्ति । चौरो यद्यागामि-दिन आगमिष्यति तदा तमर्पयामि । नो चेत्तदा यस्य श्रेष्ठिनः खात्रे यद्वतमस्ति तस्य तत्खात्र-धन-प्रमाणं धनमर्पयति । राज्ञोऽपि लक्षस्वर्णं दास्यति । इति ज्ञापयित्वा शीघ्रं चौर मोचनायादेशमानय । ततो गतस्तलारः । कथितं राज्ञे श्रेष्ठि-वाचिकम्-राजा मन्त्रि-पार्वे पृच्छति। मन्त्री प्राह-देव सोमदत्तो धन-मदेन मत्तोऽस्तीति चौरस्यास्य प्रतिभूर्भवनस्ति । अयं चौरोऽनेन मोचितः पुनः कल्ये किं पश्चादागमिष्यति । श्रेष्ठि-वरः खात्रादिकं निर्वाहयिष्यति । यावत् तु काचिच्छिक्षा लग्ना न भविष्यति तावच्चौरादीनां पटूभवनादिकं कुर्वत्र स्थास्यति । तेन देहि मोचनादेशम् । राज्ञा तलार-मुखेनदत्त आदेशः । तलारेण गत्वा श्रेष्ठिने प्रोक्तम् । मुक्तश्चौरः । स्थितस्तस्य स्थाने श्रेष्ठी । उवाच च तं प्रति-भो अग्रतोऽपि गच्छे मा पुनः पश्चादागमिष्यस्यहं भलिष्ये । तेन तत्राऽनुज्ञातम् । हट्टान्तःस्थां स्थापनिकां गृहीत्वोत्सुकोऽभुक्त एव प्रिया-मरणभवन सम्भावनााऽसि-फलकादि च मुक्त्वा गतः । तावत्-तत्र द्विपहरानन्तरं सावलिङ्गी भट्ट प्रति वदति-हे बान्धव ममपतिः प्रहर-द्वयं त्रयं यावद् विलोकित-मार्गोऽपि नागतः । तेनाहं जानामि तत्र कुशलं नाऽस्ति, यतश्चतुः षष्टियोगिनीपीठं तत्पुरम् । ततोऽमङ्गलाशङ्कि मच्चित्तं, यतः प्रणयिनृचेतार-युक्त-वेलातिक्रमेऽधृतिभाञ्जि भवन्ति । तस्मान् मम काष्ठानि देहि । भट्टः प्राह-भगिनि उत्सुका किं भवसि । दिनान्तं यावद् विलोकय । तव पणं ज्ञात्वां गतोऽस्ति सोऽनागतः कथं तिष्ठति । यदि वाऽसौ तव काष्ठ-भक्षणानन्तरमागमिष्यति तदा तस्योत्तरं किं ददामि । ततः सा प्राह-मया प्रहर द्वयमेव प्रोक्तम भुद अधुना चतुर्थः प्रहरोः अतो मम वाचामनेनाऽसती मा कुरु । त्वं चेन्मम भ्राता सत्यस्तदा मे काष्ठान्येव देहि । तिष्ठामि न कथमपि।
इकि वईरी नइ वल्लह, हियइ खट्टइ(?खडक्कइ) दुन्नि ।
वीसारतां न वीसर रइ, वसतां उव्वसि रन्नि ॥ २७३ ततो भट्टेन काष्ठानि बहिः क्षिप्तानि । सा शुचिर्भूत्वाऽऽगच्छति । कालक्षेप-करणाय शनैः शनै रचयति । अग्निना प्रज्वालिता च धूम आकाशं व्यानशे । यावता सदयो ग्रामासन्न
Loading... Page Navigation 1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114