Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
५३
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् वीकउ इति नाम । चोर्येणैव मे निर्वाहः । तैरुक्तम्-अस्मत्सार्थे भारोद्वहनायागच्छ। तवापि भागं दास्यामः । तेनोक्तम-ओमिति । ततः षडपि पुरान्तः प्रविष्टा गताः कान्दविक-गृहे । माडू प्रतिपन्न-भगिनीमाकार्य खाद्यं गृहीतं भक्षितं च तत्रैव । त्वमपि भक्षयेत्युक्ते राजाऽऽह-नाहं भक्षयामि । माङ्कः पृच्छति-क एषः । तैरुक्तम्-एषोऽपि मिलितोऽस्ति । किं नाम । तैरुक्तं वीकउ क्षत्रिय आसन्न-ग्रामवासी। साऽतीवधूर्ता चिन्तयति-एते मूर्खा विक्रम नरपति न जानन्तः सन्ति, यतोऽद्य राजा प्रतिज्ञावान् चौराणां चराचरं विलोकयन्नस्ति । स एव मिलितः सम्भाव्यते । तयोक्तम् तत्प्रीत्यर्थम्-स मम भागिनेयो रुचिरं रक्षणीयः । भगोऽपि देयः । तैरुक्तम् ओमिति । ते निःसृत्य चलिताः । आगच्छ भो भागिनेय । माङ्क-भागिनेयत्वादस्माकमपि भागिनेयः । ततो राज-भवनं गता । राजा तच्चराचरं विलोकते । तावता पञ्च राज्ञो गृहीत-सङ्केतास्तै कामिताः । षष्ठस्य कृते षष्ठयाकारिता । सा वक्ति-विक्रम नरोत्तमं प्राप्याऽपरैः समं कथं भोगेच्छ सा मन्यते न । तदपि दृष्टम् । राझ्यः पार्वाद् रत्न-पेटीगृहीत्वा निर्गताः षडपि । तैः सर्वा अपि राज्ञ उत्पाटनाय चाऽपिताः तेनाऽग्निकस्याऽर्पिताः । तत आगत्य ते सुरङ्ग-मध्ये गताः । शिलां पश्चात्कृत्य । एतावता रात्रिविभाता । दिनोदये द्वारस्थान् चतुरश्चौरान्नि हत्य राज्ञोक्तम्-रे खापरक! तव विक्रमो रुष्टः । खङ्ग-गृहाण । ददें(?)स रङ्को हतो । राज्ञा लोकानाकार्य स्वं स्वं धनं समर्पितं तेभ्यः । प्रतिज्ञा-पूरणादृष्टो नृपः पुर-प्रवेशमकरोत् समहोत्सवं । दुःशीलाः पञ्च राज्यो निष्कासिताः । सुशीला पट्टराज्ञी कृता । लोकाश्चौरोपद्रव-रहिता जाताः । खापर-सम्बन्धः ।
तद्वदत्राऽपि चौरा दुर्ग्राह्या इति तलार-वाक्यं श्रुत्वा [राजा महाजनं प्रत्यपृच्छन्-भो महाजना युष्माकं किं] वस्तु चौरेण गृहीतमस्ति । तदा महाजनेन पूर्वमिव समस्यया प्रोक्तम्हे स्वामिन् तद् वस्तु कन्दर्प चमूर स्थल-मण्डनीभूतमस्ति । राज्ञा पर्यवसितम्-कामसेनाहृदये कञ्चकः किं मुहराई(?) महाजनोऽवग-देव त्वं । चतुर-चूडामणिः सप्तशती-सालवाहनग्रन्थादि-कर्ता कवि-चक्रवर्ती । एष कञ्चको मासात् प्रागस्य कामदेव-व्यवहारिणो गृहे खात्रं पपात तदा गतोऽभूत । सोऽद्य दृष्ट उपलक्षितश्चानेनाभिज्ञानेन बहु धनं गतमस्य । ततो राज्ञा पृष्टा-सा-हे कामसेने कथय केनेयं तव कञ्चलिका दत्ता । सा प्राह-देव अस्माकं गहे नरविर-चौर-वरड-साध्वसाधु-जना [बहव] आगच्छन्ति । अस्माकं नाचारो यत्कस्याप्यग्रे कस्यचित् कथ्यते। तेषामस्माकं च मनांसि जानन्ति । यदि वयं कथयामस्तदाऽस्मद्गृहे भयेन न कोऽप्यागच्छति । राज्ञा साम-दान-दण्डादिप्रकारैः पृष्टाऽपि नाकथयत् । ततो रुष्टो राजा दण्डपाशकानाकार्य प्राह-अस्याश्चौर-दण्डं कुर्वन्तु शूलिकाभेदेन । शत शोऽपि पृष्टा एकपदेनैवाऽभवत्, न पुनः प्रष्टव्यं । यतोऽस्या गृहे चौरारि-तष्ठन्ति मया पृष्टाऽपि न वक्ति । एतेन दण्डयोग्यैषैव । बहु-दान-मान-प्रदानैरपि नह्यात्मीयैषा ।
यतः -
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114