Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 61
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् कुलस्त्रीणां सुखासन उपर्याच्छादन पटो भवति । सा तु निर्लज्जतयाऽऽच्छाद नपटो नादत्त । उद्भर-वेषा चतुष्पथे व्रजन्ती सर्वैरपि विलोक्यते । तदैकेन व्यवहारिणा सा कञ्चुकिकोपलक्षिता-एषा कञ्चलिकाऽस्माकं खात्र-पातेन गताऽभूत । साऽधुना मयोपलक्षिता । ततो हट्टादुत्थाय पुनर्निश्चय-करणाय तस्याः पार्वे जगाम । पर्यङ्किका-दण्डे लग्नो व्रजति । वार्ता कुर्वन् हृदयस्थकञ्चकं विलोकयति । व्याख्यानयति कुत एष इत्यादि-कपट-वार्ताभिः । स्वकीयं तं निश्चित्य स्वहट्टे गतः । सर्वे व्यवहारिण एकत्र मेलिताः । स्वरूपं प्रोक्तं । हट्टताला कृता । वेश्या-पार्वे कञ्चक-सद्भावं कथितं च । ततो मिलित्वा सालवाहन-राजान्तिकं गताः । राज्ञा बहुमानपूर्वं प्रोक्तं-महाजनोऽनाकारितः केन कारणेनागतः । ते वदन्ति-व विज्ञप्तये राज्ञोक्तम् -किं भवतां कोऽपि पराभवति । तैरुक्तम् देव त्वयि स्वामिनि कोऽस्माकं पराभवति। व भास्वति भास्वत्यन्धकारपराभवः । परमपरं वासाय स्थानं देहि । राजा प्राह-भो महाजनाः द्वावपि प्रकारौ [कथं] कुरुथ । यदि केनापि न पीड्यामानाः स्थ तदाऽन्यत्र वासाय स्थानं कस्मादया चथ । परं केनापि पीड्यमानाः स्थ तदैवमुच्यते भवद्भिः । ततः कथयत सम्यक्स्वागमकारणं । ततो रामदेवः श्रेष्ठी समस्ययाप्रोचे-देव क्षेत्रेषु यत्कर्षकैः पात्यते तद्भवनगरे श्रीमतां गृहेषु चौरैः पत्यमानमस्ति । राजा विद्वान् प्रोवाच-किं खात्रं पपात क्वाऽपि । महाजनेनोक्तम्-एवमेव देवेह चौराणामग्रे स्थातुं न शक्यते । राजा चिन्तयति - भूपो वृक्षः स्व-प्रजास्तस्य मूलं, भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः । तस्माद् राज्ञा स्व-प्रजा रक्षणीया, मूले गुप्तेनास्ति वृक्षस्य नाशः ॥ २६५ इति विचिन्त्य तलारक्षमाकार्य प्रवक्ति - रे रे निस्त्रप रक्षकाधम मम प्राण-प्रियाऽस्ति प्रजा, प्रेतेश-प्रतिमेन सेयमनिशं स्तेनेन निष्पीड्यते । त्वं त्वादाय मदीय-वेतन-धनं प्रेयोङ्गना-सङ्गतम् त्यक्त्वा नागर-रक्षण-व्यतिकरं निद्रायसे रे सुखम् ॥ २६६ तलारक्षेणोक्तम् स्वामिन् मम यं दण्डं कर्तुकामोऽसि तं कुरु । किं करोमि । मम विलोक्यतोऽपि चौरो न लभ्यते । दुर्गाह्यो दुरन्तश्च खर्पर-चौरवत् । राजाऽऽह-खर्पर-चौरः कः। तलारस्तत्स्वरूपं वक्ति-खर्पर-चौर-संबन्धः तथा स्तम्भतीर्थे कोऽपि व्यवहारी भद्र- नामा। तस्य पुत्रो जिनदासः तत्रैव पुरे व्यवहारि-सुतां परिणायितः । तद्वास-भवन-पार्श्व-स्थित-वटे कोऽपि यक्षो वसति । तद्भार्यां दृष्ट्वा मोहितस्तां रन्तुमिच्छु: पुनः पुनरागच्छति परं तत्-पति तेजसा स्पष्टुमपि न शक्नोति । बहूनि वर्षाणि गतानि । एकदा स व्यवहारि-सुतो वाहने चटितः । तद्भार्या स्वावास-भवन एव सुप्ता । तदा यक्षोलब्धावसरो द्वितीय-दिने पुत्ररूपं विधाय पितुः प्रणाममकरोत् । पित्रापृष्टो-वत्स वाहने चहितः । स वदति-तात अहं प्रागन भ्यासाद् वाहने स्थातुं

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114