Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 58
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् अकुलीनोऽपि मूर्योऽपि, भूपालं यो निषेवते । अपि सन्मान-हीनोऽपि, स सर्वत्र हि पूज्यते ॥ २५७ इत्यादि बहु विचिन्त्य विलक्षास्यः तं गोरम्भकं वस्त्रयुगेन सम्पूज्याह-भो भद्र त्वं तदा रोषान्न निःसारितः किन्त्वमात्यादिस्थान उपविष्टत्वात्रिःसारितः । तदपि क्षम्यतां त्वं मे भ्रातः । सोऽपि तेन वस्त्र-युगेन हृष्टः प्राह-पुना राज-प्रसादकृते यतिष्ये [पश्य] । मम बुद्धि वैभवम् । स्तोक-दिनैस्ते राजप्रसादं कारयामीइत्युक्त्वा पुनरपि तथैव गत्वा निद्राजुषो राज्ञः शय्या-सम्मार्जनं कुर्वनिदमाह-अहोऽविवेकोऽस्मद्राज्ञो यत पुरीषोत्सर्गं कुर्वन् चिर्भटान् भक्षयति। तच्छ्रुत्वोत्थाय सक्रोधमाह राजा-रे मूर्ख त्वां कर्मकरं भणित्वा न व्यापादयामि । वयमेवं कुर्वतः कदा दृष्टाः? सोऽपि पूर्ववदाह । तदा राजा चिन्तयति-न किञ्चिदेतत्पूर्वमप्येवमेवोक्तं भविष्यति। ततो दन्तिलोऽपि राज्ञा सम्मानितः ।(इति) ___ अतोऽहं ब्रवीमि-यान पूज्यते तेन ५१६ यूयमानयत । इत्युक्ते सा हृष्टा । द्रव्यानयनवार्ता श्रुत्वा श्रेष्ठी ब्रूते-मम द्रव्यमन्यायेन किं निर्गमयसि । कुमारेणोक्तम्-मम वचनमुल्लङ्यसि तदाऽहं न्यायं न करिष्ये । बलात्कारेण धनमानायितं तेन् सार्धमेक आदर्शश्च । कोऽपि न वेत्ति किं करिष्यति । ततस्तेना दर्शाग्रे धनं मुक्त्वा वेश्यायै प्रोक्तम्-गृहाणादर्श-प्रतिबिम्बितं धनम् । अग्रस्थं धनं हस्तेन स्पृष्टुमपि न ददामि । सा प्राह-एवं कथं कुमार ऊचे-अयं तव गृहे स्वप्न आगतः प्रत्यक्षेण वा । अयं यदि प्रत्यक्षेणागतस्तदा प्रत्यक्षस्थं धनं गृहाण । यदि स्वप्ने तदा प्रतिबिम्बस्थमेवधनं गृहीतुमुचितं स्वप्न प्रतिबिम्बयोरेकसदृशकार्यभवनात् । ततः सभ्याश्चमत्कृताः साधु साधु वदन्ति । अहो ! बुद्धिकौशलं तव । सा सर्वैरपि विगोपिता । अस्माभिरर्धे दापिते न मानितं तदा गृहाण पूर्णम् । लोष्टिकं न्यूनं मा गृह्णीया इत्यादि प्रकारैर्हसिता च । श्रेष्ठी स्वधनं गृहीत्वा गृहे गतः । गता सा स्वगृहे चक्षुषी प्रमार्जयन्ती। तामागच्छन्तीं दृष्ट्वा कामसेना चिन्तयति-आनीतानि ५१६ यत उत्सुकाऽऽगच्छति । पृष्टं च तया-आनीतानि कि तानि । सा त्रि-दिन-बुभुक्षिता लोकैः खेदिता च वक्ति-एकेन टुण्टकेन विगोपिता । कामसेनाऽपृच्छत्मातः कथं विगोपिता । सा प्राह-वैदेशिकः कोऽपि टुण्टको न्यायमीदृशं चकार । ततो लोकैविगोपिताऽहम् । कामसेना चिन्तयति-अहो ! बुद्धिस्तस्य । सा तत्र सूर्यप्रासादे नाटककरणमिषेण शीघ्रं तद्विलोकनाय गता। मण्डितं नाट्यं । सा नाट्यं सृजन्ती तं दृष्ट्वा चिनायतिआस्यं पूर्णशशी विलोचन-युगं विर-मेरमिन्दीवरं । ___ कण्ठः कम्बुश्चणौयै काञ्यनशीला स्कन्धौ च पूणौ घटौ । बाहू शौर्य-गजेन्द्र-यन्त्रणमहऽडलानौ करौ चारुणाम्भोजै वर्षा सुधांञ्जनं नयनयोः केनैष सृष्टो युवा ॥ इति विलोकयति । ततस्तस्याः कामज्वस्चटन् प्रकर्षो भवति । ततो ज्वलज्ज्वर-पूरेण मूछिता भूमौ पपात । निश्चेष्टा बभूव । कटुंक्वाथोत्तेलकादि-करणैर्न जागर्ति । तत उत्पाट्य गृहे नीता सा । एको वैद्यो ज्व(?) जराकान्त-देह आकारितः ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114