Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
४२
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम इत्थीइ जणइ चित्तं, न चलइ कइआ वि नेव इत्थीए ।
पुरिसेसु ताण रेहा, दिज्जइ सुविणे वि धीराणं ॥ २३० ततोऽग्रे चलितः सन् चिन्तयति ।
यतः -
नगर-शतं गन्तव्यं, विज्ञान-शतानि शिक्षणीयानि ।
भूपति-शतं च सेव्यं, स्थानान्तरितानि भाग्यानि ।। २३१ इत्येतत् सत्यमेव । यद्वा -
लच्छी न विण्हु-पासे, नवि रवीराए न चेव कामवणे ।
वर-पुन्न-पायवे सुपुरिसाण लच्छी सया वसइ ।। २३२
कौतुकानि विलोकयन् पञ्च-दिन-प्रायान्ते पुरमेकं प्राप्य केनापि ग्रामाधिपेन भट्टेन दृष्टः सुरूपः सुन्दरभार्यः । पृष्टं-क्व यास्यथ । कुमारेणोक्तं प्रतिष्ठानपुरे गमिष्यामि । भट्टः प्राहउत्सुरे यास्यथ । सन्ध्यासमयः प्रदोष उच्यते । द्विधाऽपि, आचारेणाऽऽकृत्या कुलगुणादि ज्ञात्वा उत्तमोऽसौकोऽपीति तस्य वासायाग्रहं करोति भट्टः कुमारेण चिन्तितम्-अग्रे क्वाऽपि स्थातव्यम् । अयं तु भट्टो ग्रामणीराग्रहेण स्थापयन्नस्ति इतिविचार्य स्थितस्तत्र सः ।
यतः -
नयरं होइ अट्टालएहिं पायार-तुंग-सिहरेहिं ।
गाम पि होइ नयरं, जत्थ छइल्लो जणो वसइ ॥ २३३
तत्साधं गृहे गतः । तेन सद्भक्त्याऽऽवर्जितो मर्दन-स्नान भोजनादिभिः । रात्रौ शय्याहंसतूलिकोच्छीर्षक-पत्रताम्बूल-प्रदानादिभिश्च सत्कृतः ।
यतः -
श्रान्तस्य यानं तृषितस्य पानं, भुक्तं क्षुधार्तस्य भयस्य रक्षा ।
एतानि यस्योपनयन्ति काले, तन लक्षणज्ञां प्रवदन्ति धन्यम् ॥ २३४ तथा च -
द्वद्यात् सौम्यां दृशं वाचमभ्युत्थान मथासनम् । शक्त्या भोजन-ताम्बूले, शत्रावपि गृहागते ॥ २३५
किं पुनस्तादृशे सत्पुरुषे । कुमारः-सावलिङ्गी प्राह-प्रिये पश्यास्य भट्टस्य सौजन्यगुणम् । साऽप्याह- देव सज्जना एवं विध-गुणा एव सन्ति । यतः -
तृणानि भूमिरुदकं, वाक् चतुर्थी च प्रीतिदा । सतामतो निरोहेषु नोच्छिद्यन्ते कदाचन ॥ २३६
Loading... Page Navigation 1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114