Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
४३ ____ पुनः प्राह कुमार-पञ्च-क्रोशैरितः प्रतिष्ठानपुरं समस्ति । प्रातस्त्वां निःश्रीकां पादचारेण कथं त्वत् पितृ-गृहे नेष्यामि । त्वां वस्त्राभरणरहितां । तत्र नयतो मम नीरमुत्तरति । तेन प्रतिष्ठान-पुरे गत्वा त्वत्कृते वाहन-पट्टकूलाभरणाद्यानयामि । पञ्च दिनानि लगिष्यन्ति प्रौढे तत्र पुरे । तावत्त्वमत्र तिष्ठ। तच्छुत्वा सा प्राह - नाथ तव हृदयं वज्रमयं समस्ति । किं यन्मामत्र मुक्त्वा यास्यसि । अहं क्षणमपि तव विरहे न जीवामि पञ्चदिन्याः का वार्ता । देव नारी पतिं देववत् पूजयति । तत्कृते स्वपाणानपि त्यजति । तथाऽपि नरस्य सा रोचतेऽथवा न रोचते । तस्या विरह-दुःखं मनस्यपि नानयति । प्रायः स्वेच्छयाऽन्यत्र मनो रमयति । ततः सदयो ब्रूते-प्रिये नर-ब्रुवस्यैवैतल्लक्षणं नोत्तमनरस्य ।
यतः
स्वाधीनेऽपि कलत्रे,नीचः पर-दार-लम्पटो भवति ।
परिपूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥ २३७ उत्तमो यदि योजन-शतानि व्रजति तथाऽपि स्वप्रियां हृदयान् न विस्मारयति ।
यतः -
निय-महिला-मुह-कमलं, पुत्त-मुहं धूलि-धूसर-च्छायं ।
सामि-मुहं सुपसनं, जोयण-सयये न वीसरइ ॥ २३८ यत्र सा भवति तत्रैवागच्छति । सारंवस्तु मौक्तिक स्वर्णादि सर्वं प्रिया-कर एवाऽर्पयति । स्व-मातृ-भ्रातृ-पुत्रादिषु परेषु न विश्वसिति । तैश्च सह कलिं करोति । ममाऽपि तव विरहो बाधते । परं पञ्चमदिने वाचा-बद्ध आगमिष्यामि । इत्यादिकैर्वचोभिः पर्यवसापिताऽपि ब्रूते -
जइ वच्चसि वच्चतुमं, को वारइ तुज्झ नाह जंतस्स ।
तुह-गमणे मह मरणं, लिहियं होही कयंतस्स ।। २३९
सदयः शपथ-शतैः पर्यवसापयति । ततः साऽऽह-पञ्चम-दिने प्रहर-द्वयं यावन् मार्ग विलोकयिष्ये । ततः परं काष्ठानि । इति पणं विधाय मुक्तः । पुनः सावलिङ्गी प्रोचे-देव तत्र पुरेऽनेक द्यूतकार-धुत्तारक-चौर-ग्रन्थिच्छोटक-बक-कायस्थादिका वञ्चका बहवो वसन्ति । अतस्तत्पुरं विषमं चतुःषष्टि-योगिनीनां क्रीडा-पुरं द्विपञ्चाशद्-बीराणां निवास स्थानम् । लोका अपि स्व-स्व-संज्ञाभिर्व्यवहार-क्रियां कुर्वन्ति । बहु-बुद्धि-सनाथोऽपि मुह्यतेऽत्र । सैव वक्ति लोकोक्तिस्त्वेवं
एक टक्क तिहां रात रहेवि, दुन्नि टक्क तिहां रह न करेवि । तिन्नि टक्क तिहां जम का धरणा च्यारि टक्क तिहां निश्चिइ मरणा ॥ २४०
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114