SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३६ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम शिला-पृथक्करणे तु किं दुष्करं पौरुषवताम् । ते पञ्चाऽपि चमत्कृताः कथयन्तिवरमागतोः । अत्रोपविश । कौतुकं क्रियते । उपविष्टः स । तैरुक्तम्-द्युत-रमणं वेत्सि कुमार ओमिति वक्ति । तैरुक्तम्-रम्यते । स आह-वरं । परं मम पार्वे पण-मोचना/ नास्ति । तैरुक्तम् सर्वेषां मस्तकमेव पणोऽस्तु । कुमारेण चिन्तितमेते कौटिल्येनैवं वदन्ति । यतः - आकारिङ्गिःतैर्गत्या, चेष्टया भाषणेन च । नैत्र-वक्त-विकारेश्च, लक्ष्यतेऽन्तर्गतं मनः ॥ २०४ कौटिल्यं त्वेतेषां मस्तकेष्वेव पतिष्यतीति कुमारः प्राह-एवं भवतु । ततो द्यूतेन हरसिद्धि-प्रभावात् पञ्चानामपि शिरांसि जितानि । तैरुक्तम्-गृहाणास्माकं शिरांसि । ततः कुमारो वक्ति - भोः प्रायो मित्रैर्धातृ-बन्धु-वगैः सह प्रीत्या रम्यते । तेन युयं मम भ्रातृतुल्याः । यतः - सहोदर सहाध्यायी, मित्रं वा रोग-वालकः । मार्गे वाचा कृत-प्रीतिः, पञ्चैते भ्रातरः स्मृताः ॥ २०५ तेन भवतां शिरांसि कथं छिनद्मि । तेन हृष्टा जीवितदानेन वदन्ति-भो अद्य-प्रभृति यज्जीव्यते स तवैव प्रसादो । वयं तव किङ्कराः । त्वं स्वाम्यस्माकम् । वयं तु तव द्रोहं चिकीर्षवः पापिनोः । द्रोहोऽस्माकमेवोपरि पपात । यतः - द्रुह्यन्ति ये महात्मभ्यो, द्रुह्यन्त्यात्मानमेव ते । सूर्येन्द्रग्रह-द्रुग्-हुः, शीर्ष-शेषोऽभवन् न किम् ॥ २०६ तथा - सौम्ये विरूप-चिन्तायामपि स्वस्य विपद्भरः । दधि-मन्थचिकीर्मन्थः स्त्रीभिर्बद्धो निरीक्ष्यताम् ॥ २०७ कुमारः पृच्छति-कथं ममोपरि द्रोहश्चिन्तितः । तैः सत्यमेव स्व-चिकीर्षित-कृत्य मुक्तम् परमस्माकमेव तदभूत् । त्तव रक्षा दैवेन कृता यतः - बप्पईडा ! वड भूस्तरुं (?) किम राखिसि अप्पाण ? । तलि आहेडी संचरइ, झय(?)सिरि भमइ सींचाण ॥ २०८ आहेडी सरपिइ डसिउ, सर लागु सींचाण । बापईउ उडी गयउ, इम राखिउ अप्पाण ॥ २०९
SR No.002290
Book TitleSadyavatsa Kathanakam
Original Sutra AuthorN/A
AuthorPritam Singhvi
PublisherParshwa International Shaikshanik aur Shodhnishth Pratishthan
Publication Year1999
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy