________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् लीलावती पितुर्गृहे । ततश्चलन्तं कुमारं राजा वक्ति-अश्व-रथादि-सेना-युत आडम्बरवान् व्रज । यतः -
नादरं कुरुते कोऽपि, निर्वेषस्य जगत्-त्रये । आडम्बराणि पूज्यन्ते, सर्वत्र न गुणा जने ।। १९८ सभायां व्यवहारेषु, शत्रु-मध्ये जनेषु च। आडम्बरेण पूज्यत्वं, स्त्रीषु राजकुलेषु च ॥ १९९ भवेत् परिभव-स्थानं, पुमान् प्रायो निराकृतिः । विशेषाडम्बरस्तेन, न मोच्यः सुधिया क्वचित् ॥ २०० वपुर-वचन-वस्त्राणि, विद्या-विनय-वैभवाः ।
वकार-षट्क-हीनो-हि, नरो नार्हति गौरवम् ॥ २०१ सदयः प्राह
नायं वागवलासो मम चेतो हरते । एकोऽहमसहायोऽहं, कृशोऽहमपरिच्छदः ।
स्वप्नेऽप्येवंविधा चिन्ता, मृगेन्द्रस्य न जायते ॥ २०२ तथा -
सीह सउण नवि चंदबल,नवि इच्छइ धण-ऋद्धि ।
एकल्लउ गयघड भिडइ, जिहां साहस तिहां सिद्धि ॥ २०३ अतो नमे सहायैः कार्यम् । ततः सावलिङ्गी-सहितश्चचाल सदयः । मार्गे गच्छन् मपि पुरुषाणां शब्दानशृणोत् । चिन्तितम्-क्व श्रूयन्ते रवाः । इतस्ततो विलोकयति । तावता क्वापि पर्वते प्रौढ-शिला-पिहित-द्वारा गुहा दृष्टा । शब्दानुसारेण तत्र गतः । शिला-पृष्ठतः केऽपि स्थिताः सन्ति । तत्र श्रूयन्ते रवा इति विमृश्य पाणिभ्यां शिला पृथक्कृता । ततोऽग्रे प्रौढसौध-समा गुहाऽस्ति । मध्ये पञ्च पुरुषाः सन्ति वार्तयन्तः । तैर्दृष्टः कुमारः सुरूपभार्यः । तैश्चिन्तितम्- शिला-मुद्रिते द्वारे कथमयं मध्य आगात् । नायं सामान्यः किं [तु] कोऽपि सल्लक्षणो राजाङ्गजो गण्यते महान् । तैः परस्परं प्रोक्तम्-यद्स्य सुरसुन्दरी-समा स्त्र्यस्ति तत एनं हत्वा स्त्री गृह्यते । एकेनोक्तम्-मेवं मुधैव किं मार्यते । उपायेन स्वयं भ्रियते तत्-क्रियते । पुनस्तैरुक्तम्-एवं साधु । वयं द्यूत-व्यसनिनो विद्यासिद्धाश्चौरा ततोऽयं प्रथममाकार्यते । धूर्तावर्जनया विश्वस्तो मस्तक-पण-घूतेन जित्वा शिरोऽस्य गृह्यते । अस्मिन् मृते त्यात्मीयैव भविष्यति इति विमृश्य तैराकारितः । प्रीति-पोषकवाग्भिः । प्रीतो गतः स तत्रोपविष्टस्तत्पावें। तैः पृष्टं-भोः पुरुषोत्तम् त्वं कथमत्रागाः अस्माकमिदं स्थानं न कोऽपि वेत्ति । कुत आगतश्च । शिला कथं पृथक्कृता । वयं पञ्चाऽपि मिलित्वा शिलां चालयितुमशक्ताः । इत्युक्ते कुमारो वक्तिअहं । दुर-देशादागतो भवतां शब्दान् श्रुत्वा कौतुकादत्रगच्छम् ।