Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
३८
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम् यतः -
पाइअ कव्वं सुविलास-कामिणी सुअण-संगमो गी। एयं रयण चउकं , संसारे निम्मियं विहिणा ॥ २१२ उवयारह उवयारडउ, सव्वउ लोलु करेइ ।
गुणि अणकीधइ गुण करइ, विरला, जणणि जणेइ ॥ २१३
अथ त्वं मम भाग्येन दृष्टिगोचरे गतस्तदा विक्रमराज्ञे मदीयमेकं श्लोकं कथय प्रसादं कृत्वा । यदि न कथयिष्यसि तदा स्त्री-हत्या-प्रातकं तव । शुक आह-तत् कथय । सा श्लोकं लिखित्वाऽर्पयति -
पद्मं तुला रदौ रक्तो तिलकं मञ्जरीयुतम् ।।
मुखे दशाङ्गुली-क्षेपः कथमेतत् वयाऽनघ ॥ २१४
एतत् समस्या-श्लोकं तयाऽर्पितं तद्वाचिकं चाङ्गी-कृत्य कीरोऽगात् । तयाऽर्पितः श्लोकस्तेन राज्ञा पण्डित-पार्वे तदर्थः पृष्टः । इतश्च तत्रैवोज्जयिन्यामहि-राजश्रेष्ठी । तत्पुत्रो धनार्जनाय बहु-हेम-टङ्कान् गृहीत्वाऽश्वारूढ एक-क्षत्रिय-जन-साहाय्यो देशान्तरे चचाल । मार्गे धन लोभात् साहाय्येनैव मारणाय स बद्धः । तेन व्यवहारिपुत्रेणोक्तं धनं गृहीत्वा मां मुञ्च । इत्युक्तोऽपि न मुञ्चति तं स दुष्टः । ततो मृत्यु-निश्चयं ज्ञात्वा बुद्धिमता तेन स्व-वैर-वालनाय पितुर्धनार्पणाय चैका सन्देशरूपा हृदयालिका प्रोक्ता तदग्रे-मम पितुरेकं सन्देशं वदेः । अप्रसिख इति । तेनाचिन्ति-एतत् कथनेन मम को दोषः । ततस्तेनाङ्गीकृतम् । कियता कालेन ततः स्वपुरमागात् । तत्पित्राद्याङ्ग मान्द्यादिना तत्पुत्रमरणमुक्तम्। 'अप्रसिख' इति सन्देश उक्तोऽस्ति। तदर्थ तु न कोऽपि पर्यवस्यति । स श्रेष्ठी राज्ञः पुरो गत्वा तां चतुरक्षरां हृदयालिकां वदति, तदर्थं राजा पञ्च-शत-पण्डित-पार्वात् पृच्छति । ते नामापि न विदन्ति । बहूनि दिनानि गतानि परं कोऽपि हियालिया द्वयस्यार्थं न वेत्ति । वररुचि-पाच मिलित्वा सर्वैर्विचारः कृतो दिनत्रयं च मागितम् । ततो विचारं कुर्वतां तेषां दिन-द्वयं गतम् । विषण्णाश्चिन्तयन्ति - कथं ज्ञायतेऽर्थः । तृतीयं दिनमगमत् । परमर्थो न ज्ञातः ।
यतः -
प्रहेलिकां समस्यां च, निधानं हृदयालिकाम् । गर्भोत्पत्ति विपत्तिं च, नैव जानन्ति मानवाः ॥ २१५ कदाऽपि ज्ञानयोगेन, देवतानां प्रसादतः ।
जानन्ति मानवा नूनं, दैवतांशा भवन्ति ते ॥ २१६ प्रभाते देश-निष्कासनं भावीति दिनान्ते निर्गच्छन्ति भयातुरा:-पण्डिता वर रुचि
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114