Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 44
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम स्त्रीरूपोऽभूत। राजा पृच्छति-इंह भवे परभवे वा । ते प्राहु-इह भव एव । राजा कौतुकी तदाकारणाय स्व-मन्त्रिणं प्रेषयति । सा वक्ति-ममाऽतः परं प्राग्वदागमनं न भविष्यति । ततः स्त्रियः प्रेषिताः ताभिः सह सुखासन उपविश्य राजभवनं गता । राज्ञा पृष्टा स्वस्वरूपं मूलत आह । नृपोऽपि तबुद्धया चमत्कृतो [प-छति-] मम पुत्री तव दत्ता तत् कथं । सा वक्तितदा मम हृदये पतिरेवासीत् । एषाऽपि मम पत्ये भवतु । प्रीतिपरा मम भगिनी भविष्यति, यदि x... x...x... x... x तदा दातु । नोचेद्यथारुचि कुरु । सर्वैरुक्तम्-एष व्यवहारी धनवानस्यैव दीयतां । तस्य दत्ता सा । राज्ञा विवाहो महद्धर्या विहितो । राज्ञा तस्मै बहु दत्तमन्यदपि वरं भोजनम् स । माण्डपिकेन भार्यावचनात् षण्मासैमण्डपिकोत्तीर्णा, स्वपुरगमनायोत्साहोऽभूत् । ततो वाहन-द्रव्यैरपूर्णे राजदत्तैश्च वाहनं-पूर्णी करोति । राज्ञा स्वपुत्री च पद्मावत्यपि बहु-धन-दानेन सत्कृता । स्थलमार्गेण कटकं प्रेषितं शेषं जलमार्गेण । मृगाङ्क: स्वपुरे गतो द्वाभ्यां पत्नीभ्यां सहितः सौख्यं भुङ्क्ते । स्वोपार्जितैर्धनैर्दानादि करोति । एकदा ज्ञानवद्-गुर-त्योगे स्वं-पूर्व-भवं पृच्छति मृगाङ्को । मतिसागर-गुरुराह-पूर्वभवे धन्यपु-नामनि सामान्यग्रामे वीराङ्गदो नाम क्षत्रियो दरिद्री । वीरमती भार्या । अन्यदा ग्रामान्तरे गच्छन् वटवृक्षवडवामीषद्रक्तवां दृष्ट्वा स्वर्ण-निधि निश्चित्य खनन एक एव स्वर्णटङ्को लब्धःशेषा xx..xx..xx.. एवं चिन्तयति स-मेघेऽमोघधारेऽधिकं नाऽऽप्नोति बप्पीहः । तथा गामंतराणि देसतराणि देसंतराणि विविहाणि । हिंडंतो वि न सावइ, लच्छी तुच्छं पि निब्भायो ॥ १९७ तं लात्वा गृह आगात् । तद्दिने शालि-तन्दुल-घृत-सिता-दुग्ध- मानीय परमानं कारितं । भोजनायोपविष्टः । तावत् कोऽपि जयदत्त ऋषिरागान् मासोपवासी । भक्त्या तस्मै परमानं दत्तम् । वीर-मत्यपि हृष्टाऽनुमोदयति 1 बहुदानेऽपत्यानां नोद्धरिष्यतीति किञ्चिच्चित उद्वेगं दधौ । पत्या तु चतुरेण प्रोक्तं - मोद्वेगं कुरू । अनेनर्षिणाऽऽत्म-दत्तमेव गृहीतं नाऽन्यथा न बलेन । तव बालानामपि भविष्यति । ततः कस्मान्मनसि दूयसे । ततस्तयाऽपि भावो धृतः । द्वाभ्यां मानुष-भव-सम्बन्धि-भोग-फलं कर्माजितं । ततो मृत्वा त्वं मृगाङ्कोऽभूद्वीरमती पद्मावती । पूर्व-भव-स्नेहेनेह भवेऽपि युवयोः प्रीतिः । दानावसरे किञ्चिन् मनसि प्रद्वेषेण समुद्रान्तर्मोचन-कुटुम्बवियोग-जलहस्त्युलालनादि दुःखं सेहेऽनया । इत्यादि पुर्वभववृत्तान्तं श्रुत्वा द्वयोर्जाति-स्मृति-धर्म कृत्वा स्वर्गापवर्गश्च इति मृगाङ्क-कथा । एवं संसार-दावानल-घनावली श्रवण-स्पृहणीयां सुभाषितां च गुरु-देशनां श्रुत्वा तत्र राज्ञा सदयवत्स-कुमारेण च श्रावक-धर्मः प्रपत्रः । ततो वन्दित्वा गृहेषु जग्मुः सर्वे । राजा सदयस्य देशान् ददाति । स नादत्ते । अन्यदा चलन-समये राज्ञोऽग्रे वक्ति-अहं चलिष्यामि। अधुना तव पुत्र्यचैव तिष्ठतु । ममक्वाऽप्यवस्थाने सत्याकारणं करिष्यते । इत्युक्त्वा [मुक्ता]

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114