Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 42
________________ ३२ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम राजभवन-गढ-मठ-प्रासादादियुतं स्वकलया तत्र वीजणके लिलेख जन-वित्त-चमत्कारकारकं । वृद्धायाः प्रोक्तं मातरयं तालवृन्तो नगर-मध्य अष्टोत्तर-शत-रूप्य-टबै व्यतितव्यो न न्यून-मूल्येन । यदि कोऽपि न गृह्णाति तदा पश्चादानेयः । तया तथा कृते कोऽपि न गृह्णातिमुधाऽल्पकार्ये को धन व्यय करोति । राजसभायां वार्ताऽभूत । नरवर्मराज आह- नगरस्य लज्जेयं यनगरद् वस्तु पश्चाद्याति । स्वभाण्डागारिण उक्तं-त्वया स तालवृन्तस्तदुक्तमूल्येनानेयः । तेन ताद्दग्-मूल्येन गृहीत्वा राज्ञेऽपितो । राजा तं तालवृन्तं तथाविधं दृष्ट्वा चमत्कृतः प्रोचेएतत्-तालवृन्त-चित्रकरमानय । तेन सा वृद्धा तत्र राजभवन आनीता । राज्ञा पृष्टा सा-केनेदं चित्रकर्म कृतं । सा वक्ति-ममाङ्गजेन । राजाऽऽह-इयन्ति दिनानि स न प्रादुरभूत् । सोचेअधुनाऽऽगतो जिपमानितोऽङ्गजः । राजाऽऽह-सोऽत्रप्रेष्यः । तया ओमिति भणित्वा गृहे गतया स प्रेषितो राजजनेन सह राजभवने गतो नृपसमीपे । पृष्टं राज्ञा कलाविज्ञानं । तेनोक्तं-किमेतत् ततो राज्ञापूजितो मानितः । प्रत्यहमत्र त्वयाऽऽगन्तव्यमिति निश्चय-कारापणपूर्वं स विसर्जितः। नित्यं तत्र गमने राजा तुष्टस्तदुक्तशास्त्रविचार विनोदवार्ताभिः । एकदा हृष्टेन राज्ञोक्तं-अन्यत् किमपि वेत्सि । सोऽवक चतुः षष्टिः कलाः स्त्रीणां द्विसप्ततिः पुंसां च कला वेद्मि । यद्वा तन्नाऽस्ति यन्न वेदि । ततो नृपतिराह-मम x x x x सा न गृहणाति । कालेन विस्मृत्य गतम् । द्वयोरपि परस्परं प्रीतिस्तथैव । परं सहृदये भक्षित इवाऽस्थात् । ततः कालेन पठित्वा ताम वध्यायत । ततः स छन्दो-लक्षण-तर्क- धनुर्वेद-नृत्य-दण्डायुधादि सर्वमध्यापितवांस्तां स्तोकैदिनैः । तुष्टो नृपः प्राह-दश ग्रामा उपदीक्रियते ते । यद्दीयते तत् स्तोकं तथाऽपि दशग्रामादिकं किमपि गृहाण । स न गृहणाति । नृपः प्राह-मुधा ओलग-कारापणं न यशसे मम । बहूक्ते स वक्ति- एवं चेततदा देश-दाण-मण्डपिकां देहि । सा राज्ञाऽर्पिता । कागदे लिखितं-वर्षत्रयं यावत् कोऽप्यपरो ने गृहणाति । यस्य तु दाणं मुञ्चामि xxxx तस्य सर्वस्वं गृह्णामि । तथा राज्ञा रावा कस्यापि न श्रोतव्या। एवं कृते सति स देशधनिक इवाऽजनि बहुपरिवारयुतश्चाऽभूत । वर्षद्वयेन बहुकोटयो धनस्यार्जिताः । ततः स्त्रीयोग्यान्याभरणानि पुरुषयोग्यान्याभरणानि च नामाङ्कितानि कारयामास । इतश्चैकदा राज्ञः पुत्री सुरसुन्दरी द्रूपं दृष्ट्वा काम-राग-ग्रहिला तत्-पाणिग्रहणायाग्रहपराऽभूत । राज्ञा तज्ज्ञात्वा विवाह-करणाय स मण्डपिकाधिपः प्रार्थितः । परं स्व-स्त्री-रूपत्वेन न मन्यते स्वं च न प्रकटयति । अतिकदाग्रहेण त्वग्रेतनमेकं xxxx विचार्य मानितं पाणिग्रहणम् । पर मधुनाऽष्टादश-तीर्थ-यात्रा-करणे ममाऽभिग्रहोऽस्ति । तत् करणानन्तरं पाणिग्रहणं करिष्य इत्युत्त्वा पर्यवसापयति राजादीन। ___ इतश्च तृतीय-वर्षस्य षण्मासेषु गतेषु मृगाङ्कोऽपि सिंहलद्वीपतो बहुकोटि-मितानि धनान्यर्जयित्वा तत्रागांत् नाङ्गरितानि वाहनानि । तत्र तटे। दाणमदत्त्वाऽग्रतश्चलितुं न शक्नुवन्ति । ततो नृपं नत्वा मण्डपिकाधिपतिपाइँजगाम । तेन मृगाङ्क उपलक्षितः स्वपतिःमृगाङ्केन नररूपत्वात्स नोपलक्षितः । मृगाङ्केनोक्तम्-अस्माकं दाणं वालयित्वा वाहनानि मुत्कलानि कुरु

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114