________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
तस्य सर्वान्तःपुर-पुरन्ध्र-प्रधानभूता कमलावती नाम राज्ञी । तस्याः प्राण-प्रिया सावलिङ्गी नाम्नी पुत्री बहु-पुत्रोपरि जाता, स्वरूप-निर्जित-रम्भाऽअखिल-जन-नयन-कुरङ्गवागुरा पितृ- भ्रातृ-चितालादकारिणी।
यस्याः पदाङ्गुष्ठ-नखौ मुखं च बिभर्ति पूर्णेन्दु-चतुष्टयं या ।
कलाश्चतुःषष्टिरूपैतु वासं, तस्यां कथं सुश्रुवि नाम नाऽस्याम् ॥ १४ तस्याः पाणि-ग्रहण-निमित्तं स्वयंवर-मण्डपो राज्ञा कारितः । तत्र बहु-राजकुमारा आकारिताः सन्तो मिलिताः । तच्छ्रुत्वा प्रभुवत्स-राज्ञे मन्त्रि-प्रभृतिभिः रुक्तम् । देवान्ये राजकुमाराः स्वयंवर-मण्डपे गताः । युष्मत् कुमारस्याकारणायाद्यापि कोऽपि जनो नागतोऽस्ति ततः कुमारं स्वयमेव प्रेषयत । राजाह-उत्तमाः प्रौढे-तावन्मेलापकेऽनाकारिताः कथं गच्छन्ति ।
यतः
अनादतः प्रविशतिह्यपृष्टो बहु भाषते ।
अदत्तमासनं भेजे स पार्थ पुरुषाधमः ॥ १५ मा उत्सुका भवन्तु । स्थिरा लक्ष्मीः । (अत्र कथा ।)
अत्राऽऽगमिष्यति जनः इति वदत एव राज्ञोऽग्रे दूत आगात् । तेनोक्तम्-देव सदयवत्सकुमारा कारणायाहं प्रेषितोऽस्मि राज्ञा श्रीसालवाहनेन । ततो राज्ञा कुमारो मन्त्रिभिः सह प्रेषितो बहु-सैन्य-युतः । राज्ञा मन्त्रिणे उक्तं यदयं कुमारो व्ययार्थं मार्गयति तत् सर्वं समर्पणीयमस्य । कृपणत्वं न करणीयं । दान-शौण्डे मेलापके मिलिते कार्पण्यं महदपकीर्तये स्यात् । यतः
औदार्य-गुण-युक्तेषु कृपणो नैव शोभते ।
भद्र-जाति-गजेन्द्रेषु यथा गर्दभ-मंडलम् ॥ १६ राज्ञेत्थं शिक्षितोऽपि मन्त्री कृपणः कुमाराय स्तोक स्तोकमेवादाद् दानादि-व्ययार्थम् ।
यतः ।
ऋणादपि महान् कम्पो दानस्याऽवसरे भवेत् ।
भीमः सङ्कुचितो गात्रे दान-दातव्य-शङ्कया ॥ १७ गोग्रहे कौरव-हृत-गो-'[धना]हारार्थं गच्छन् हर्षादुल्लसद्गात्रो भीमः सन्नाहं गृह्णाति, परं देहे नाऽऽगच्छति । अपरे पाण्डवा व्याकुलीभूताः कृष्णं विज्ञापयन्ति-भीमदेहे सन्नाहो नागच्छति किं करिष्यति। कृष्णः प्राह-धीरा भवत । ततः कृष्णो ब्राह्मण-वेषेण दान-मार्गणाय तमयाचत्। भीमस्तदा दातव्य-वस्त्वभावात् खेदात् संकुचित-गात्रोऽभूत् । सन्नाहो देह आगाद् ।