Book Title: Sadyavatsa Kathanakam
Author(s): Pritam Singhvi
Publisher: Parshwa International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम
रक्षणीयः सदा दक्षैः पुरेऽपि व्यसनी वसन् । पापानां व्यसनं मूलं पापं दुःख-ततिरिव ॥ ३७ धर्मस्याव्यसनं मूलं धर्मः सर्व-सुख-श्रियाम् । व्यसनैः सुखमिच्छन्ति मूढाः शैत्यमिवानलात् ॥ ३८ सर्व-व्यसन-मुक्तेषु युक्तेषु सुकृतोत्सवैः ।
पुरुषेषु त्वया तात रचनीया रतिस्ततः ॥ ३९ सत्सङ्गात् पूज्यता भवेद् ।
यतः
शिरसा सुमनःसङ्गाद् धार्यन्ते तन्तवोऽपि हि ।
तेऽपि पादेन मृद्यन्ते पटेषु मल-संगतः ॥ ४०
इत्यादि-शिक्षा प्रतिपद्य प्राह कुमारः-तात राज्ञां लक्ष्मीरअनन्ता । किं गण्यते । राजाचे-एवं-राज्ये चेद् बहु हेम स्यात् तदा महिष्याः शृङ्खला विधीयते । तैलं बहु चेत् तदा गिरयः स्निह्यन्ते। अमृतं बहु तदा पाद-शौचं विधीयते । एवं युक्तया वारितोऽपि न तिष्ठति। प्रतिवक्ति च -
सुवर्णैः पटकूलैश्च शोभन्ते वारयोषितः । पराक्रमेण दानेन राजन्ते राज-नन्दनाः ॥४१ अनुकले विधौ देयं यतः परयिता हि सः । प्रतिकूले विशेषेण यतः सर्वं स नेष्यति ॥ ४२ दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः ।
पश्येह मधुकरीणां संचितमर्थं हरन्त्यन्ये ॥ ४३ राजा पुनः प्राह
द्यूत-पोषी निज-द्वेषी, धातु-वादी तथाऽलसः ।
आय-व्यय-मनालोची यस्तद्गेहे वसाम्यहम् ॥ ४४ इति दारिद्य वचनम् ॥
गुरवो यत्र पूज्यन्ते धान्यं यत्र सुसंचितम् ।
. अ-दन्त-कलहो यत्र तत्र शक्र वसाम्यहम् ॥ ४५ इदं लक्ष्मी-वचः । इत्यादि-वाक्-प्रपंचैर्निरुत्तरीकृतेन राज्ञा रुष्टेन स स्वसौधाद् बहिष्कृतः ।
यतः
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114