Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 333
________________ *प्राकृत व्याकरणम् ★ चतुर्थपाद! . बाउ इति भवति । पसति-पडइ, प्रक्रिया ५९० सूत्र ज्ञेया। अपूरे । अपूर+सि । ११०० सू० अप्रत्यये, १००५ सू० डिना सह प्रकारस्थ स्थाने इकारे अपुरा इति भवति । काले । काल+डि । १००५ सू० डिन्ना सह अकारस्य इकारे कालि इति भवति । मकर-ध्वज-अवस्कन्दमयर-य-दडबडउ, इत्यत्र प्रस्तुतसूत्रस्य प्रवृतिर्जाता। वेश्चः । यदि इत्यस्य पदस्य बुद्ध इत्यादेशो भवति । यथा--यदि राजते ध्यवसायः= छुडु अग्ध ववसाउ, प्रक्रिया १०५६ सूत्रे ज्ञेया। यदि :- छुड इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिजीता। संबन्धिन: केर-तयो । सम्बन्धिन् इत्यस्य पदस्य स्थाने' केर, लण इत्यादेशौ भवतः । यथा-- गतः स केसरी पिवत जलं निश्चिन्तं हरिणा: ।। यस्य सम्बन्धिमा हुंकारेण भुखेभ्यः पतन्ति तरणानि |॥१५॥ भावार्थ:-हे हरिणा! हे मृमाः !, यस्य सिंहस्य सम्बन्धिमा हंकारेण-गर्जनशब्देन युष्माकं मुखेभ्यः तुणानि-घासकवलानि पतन्ति-अधस्तात् स्खलन्ति, स केसरीसिंहो गतः, अतो यूयं मिश्चिन्तम्, निर्गता चिन्ता यस्मात्तत् निश्चिन्त चिन्तारहितं यथा स्यात्तथा, क्रियाविशेषणमिदम्, जलं पिवत, जलपानं करणीयम्, भयकारणाऽपगमे सति भयं न कामिति भावा । गतः । गत+सि । १७७ सू० तकारस्य लोपे,१४० सू० यकारश्रुतो, ११०० सू० अप्रत्यये, १००२ सू० प्रकारस्य उकारे,१०१५ स० सेलोपे गयउ इति भवति । सः । तद+सि । इत्यत्र ५७५ सू० तकारस्य सकारे, ११ सू० दकारलोपे, १००२ स० अकारस्थ उकारे, १०१५ स० सेलोगे सु इति भवति । फेसरी। केसरिन्+सि । ११ सू० नकारलोपे, १०१५ सू० सेर्लोपे केसरि इति भवति । पिवत । पाधातुः पाने ! पाते । संस्कृतनियमेन पिब+त इति जाते,१७७ सू० बकारस्य लोपे,१०५५ सू० त इत्यस्य स्थाने हु इत्यादेशे पिग्रह इति भवति । जलम् । जल+अम् । १००२ सू० अकारस्य, स्थाने उकारे, १०१५ सू० मंसो लोपे जलु इति भवति । निश्चिन्तम् । निश्चिन्त+म् । ३४८ स० कारलोपे, ३६० सू० चकारद्वित्त्वे, ११०० सू० स्वाऽर्थे अप्रत्यये, १००० सू० अकारस्य स्थाने इकारे, ६१३ सू० प्रदन्तवदलिदेशात ४९४ सू० अमोऽकारस्य लोपे,२३ सू० मकाराऽनुस्वारे निश्चिन्त इति भवति । हरिणाः हरिण+जस् । ३४ सूत्रेण क्रीयत्वे, १००१ सू० अकारस्य प्राकारे, १०२४ स० जसः स्थाने ई इत्यादेशे हरिणाई इति भवति । यस्य । यद् + ङस् । इत्यत्र २४५ सू० यकारस्य स्थाने जकारे,१० सू० देकारलोपे, १००९ सू० इस स्थाने सु इत्यादेशे जसु इति भवति । सम्बन्धिना । सम्बन्धिन् +टा । प्रस्तुतसूत्रेण सम्बन्धिन इत्यस्य स्थाने केर इत्यादेशे, ११०० सू० स्वार्थ प्रप्रत्यये, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिबत्त्वात् १००४ सू० प्रकारस्य एकारे केराति भवतिरकारे कारटा इत्या १००० सा स्वार्थ हडन-(प्रमप्रत्यये, डिति परेऽन्त्यस्वरादेलोपे, अज्झीने परेण संयोज्ये, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवस्वात् १००४ सू० अकारस्य एकारे हुकारखएं इति भवति । मुखेभ्यः । मुख+भ्यस्। इत्यत्र १८७ सू० भकारस्य हकारे, १००८ सू० भ्यसः स्थाने हुं इत्यादेशे, १०८२ सू० उच्चारणलाघवे मुहहुँ इति भवति । पतन्ति । पल्लू (पत्) पतने । पत्+अन्ति । ८९० सू० तकारस्थ डकारे, ११० सू० प्रकारागमे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे पडन्ति इति भवति । तृणानि । तृण+जस् । १००० सू० ऋकारस्य ऋकारे एव स्थिते, १००० सू० प्रकारस्य प्राकारे, १०२४ सू० जसः स्थाने ई इत्यादेशे तृणाई इति भवति । स वधिमाकेरएं इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिांता । सम्प्रति वृत्तिकारः तणादेशस्थोदाहरणं प्रदर्शयति । यया-अथ भग्मा अस्माकं सम्बन्धिनः-मह भग्गा अम्हं तणा, एतेषां पदानां प्रक्रिया १०५० सूत्रस्य द्वितीयश्लोके शेया सम्बन्धिनः तणा इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। मा भैषीरिस्पस्य । मा भैषी,इ

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461