Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 414
________________ ८७-८८ ] शतकनामा पञ्चमः कर्मग्रन्थः । १२१ यदा पुनरौदारि कादिचतुष्टयमध्यादेकेन केनचित् शरीरेण सर्वबुद्गलान परिणमय्य मुञ्चति शेषशरीरपरिणमितास्तु पुद्गला न गृह्यन्त एव तदा सूक्ष्मो द्रव्यपुद्गलपरावर्ती भवतीति ।।८७।। उक्तो द्वेधाऽपि द्रव्यपुद्गलपरावर्तः । सम्प्रति क्षेत्र-काल-भावपुद्गलपरावर्तान् बादर-सूक्ष्मभेदभिन्नान् निरूपयन्नाह लोगपएसोसप्पिणिसमया अणुभागबंधठाणा य । जहतहकममरणेणं, पुट्ठा खित्ताइ थूलियरा ॥८८ ।। ___ लोकस्य-चतुर्दशरज्ज्वात्मकक्षेत्रखण्डस्य प्रदेशाः-निर्विभागा भागा लोकप्रदेशाः, तथोत्सर्पिणीशब्देनावसर्पिण्यप्युपलक्ष्यते दिनग्रहणे रात्र्युपलक्षणवत् , तयोः समया:-परमनिकृष्टाः कालविशेषा उत्सर्पिणी-अवसर्पिणीसमयाः, समयस्वरूपं च पट्टशाटिकापाटनदृष्टान्ताद् उत्पलपत्रशतभेदोदाहरणाचावसेयम् , ततो लोकप्रदेशाश्चोत्सर्पिण्यवसर्पिणीसमयाश्चेति द्वन्द्वः । तथाऽनुभागस्य--रसस्य बन्धः--बन्धनं तस्य निमित्तभृतानि स्थानानि-कपायोदयविशेषलक्षणान्यनुभागवन्धस्थानानि, अनुभागवन्धाध्यवसायस्थानानीत्यर्थः। चः समुच्चये, ततश्चैते प्रत्येकं त्रयोऽपि पदार्था यदा मरणशब्दस्य प्रत्येकमभिसम्बन्धाद्' यथातथामरणेन-क्रमोत्क्रमाभ्यां प्राणपरित्यागलक्षणेन । स्पृष्टाः-व्याप्ता भवन्ति तदा "खित्ताइ थूल" त्ति क्षेत्रादयः' क्षेत्रपुद्गलपरावर्त कालपुद्गलपरावलभावपुद्गलपरावर्ताः 'स्थूलाः' बादरा भवन्ति । यदा पुनस्त एव लोकाकाशप्रदेशा उत्सर्पिण्यवसर्पिणीसमया अनुभागबन्धाध्यवसायस्थानानि चेति प्रत्येकं त्रयोऽपि पदार्थाः क्रममरणेन--पूर्वस्पृष्टाकाशप्रदेशादिभ्योऽव्यवधानतः प्राणपरित्यागलक्षणेन स्पृष्टा भवन्ति तदा क्षेत्रपुद्गलपरावर्त कालपुद्गलपरावर्त भावपुद्गलपरावर्ताः "इयर" सि इतरे सूक्ष्मा भवन्तीति गाथाक्षरार्थः । भावार्थः पुनरयम्--यदाऽनन्तभवभ्रमणशीलो जन्तुरनन्तरेषु व्यवहितेषु वा अपरापराकाशप्रदेशेषु म्रियमाणः सर्वानपि चतुर्दशरज्ज्वात्मकलोकाकाशप्रदेशान् मरणेन स्पृशति तदा बादरः क्षेत्रपुद्गलपरावतों भवति । नवरं येष्वपरप्रदेशवृद्धिरहितेषु पूर्वावगाढेष्वेव नमःप्रदेशेषु मृतस्ते न गण्यन्ते, अपूर्वास्तु दूरव्यवहिता अपि स्पृष्टा गण्यन्त एवेति १ । कालतस्तु यदोत्सर्पिण्यवसर्पिणीसमयेषु सर्वेष्वपि क्रमेणोत्क्रमेण वा अनन्तानन्तेभरेको जन्तुमृतो भवति तदा बादरः कालपुद्गलपरावर्ती भवति । केवलं येषु समयेष्वेकदा मृतोऽन्यदापि यदि तेष्वेव समयेषु म्रियते तदा ते न गण्यन्ते, यदा पुनरेक-द्वितीयादिसमयक्रममुल्लचचापि अपूर्वेषु समयेषु म्रियते तदा ते व्यवहिता अपि समया गण्यन्त इति २ । भावतः पुद्गलपरावर्त उच्यते--अनु १ सं० १-२ त० छा० ०कादिशरीरादिचतु० ॥ २ सं० १-२ त० म० छा सर्पिण्युपल० ।। 16

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602