Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 555
________________ २६२ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं [ गाथा: सङ्ख्यया त्रयोविंशतिशतानि द्वादशाधिकानि २३१२ । एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानाम् । अत्र भङ्गा एकादश शतानि द्विपञ्चाशदधिकानि ११५२ । उक्तरूपाया एवं भङ्गसङ्ख्याया निरूपणार्थमियमन्तरर्भाष्यगाथा'बत्तीस दोन्नि अड्ड य, बासीयसया य पंच नव उदया । बारहगा तेवीसा, बावन्नेकारस सया य ॥ १० ॥ सुगमा || सर्वभङ्गसङ्ख्या सप्तनवत्यधिकानि चत्वारिंशच्छतानि ४०६७ । सासादनस्य द्वे सत्तास्थाने, तद्यथा - द्विनवतिरष्टाशीतिश्च । तत्र द्विनवतिर्य आहारकचतुष्टयं बद्ध्वा उपशम श्रेणीतः प्रतिपतनं सासादनभावमुपगच्छति तस्य लभ्यते, न शेपस्य । अष्टाशीतिश्चतुर्गतिकानामपि सासादनानाम् । 3 सम्प्रति संवेध उच्यते - तत्राष्टाविंशर्ति बघ्नतः सासादनम्य द्वे उदयस्थाने, तद्यथात्रिंशद् एकत्रिंशत् । अष्टाविंशतिर्हि सासादनस्य बन्धयोग्या भवति देवगतिविषया, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यं बध्नाति ततः शेषा उदया न सम्भवन्ति । तत्र मनुष्यमधिकृत्य त्रिंशदुदये द्वे अपि सत्तास्थाने । तिर्यक्पञ्चेन्द्रियसासादनानधिकृत्याष्टाशीतिरेव, यतो द्विनवतिरुपशमश्रेणीतः प्रतिपततो लभ्यते, न च तिरश्वामुपशमश्रेणिसम्भवः | एकत्रिंशदुदयेऽप्यष्टाशीतिरेव, यत एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणाम् । न च तिरवां द्विनवतिः सम्भवति, प्रागुक्तयुक्तेः । एकोनत्रिंशतं तिर्यक्पञ्चेन्द्रिय मनुष्यप्रायोग्यां बध्नतः सासादनस्य सप्ताप्युदयस्थानानि । तत्र एकेन्द्रिय-विकलेन्द्रिय- तिर्यक्पञ्चेन्द्रिय-मनुष्य-देव-नैरयिकाणां सासादनानां स्वीयस्वीयोदयस्थानेषु वर्तमानानामेकमेव सत्तास्थानम् - अष्टाशीतिः । नवरं मनुष्यस्य त्रिंशदुदये वर्तमानस्योपशमश्र णीतः प्रतिपततः सासादनस्य द्विनवतिः । एवं त्रिंशद्बन्धकस्यापि वक्तव्यम् सर्वाण्यप्युदयस्थानान्यधिकृत्य सामान्येन सर्वसङ्ख्यया सासादनस्याष्टौ सत्तास्थानानि । सम्प्रति सम्यग्मिथ्यादृष्टेर्बन्ध-उदय-सत्तास्थानान्यभिधीयन्ते - "दुग तिग दुगं" ति द्वे बन्धस्थाने, तद्यथा-अष्टाविंशतिः एकोनत्रिंशत् । तत्र तिर्यग्- मनुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ । एकोनत्रिंशद् मनुष्यगतिप्रायोग्यं बध्नतां देव-नैरयिकाणाम्, अत्राप्यष्टौ भङ्गाः । ते चोभयत्रापि स्थिरा ऽस्थिरशुभाऽशुभ-यशःकीर्ति-अयशः कीर्तिपदैवसेयाः । शेषास्तु परावर्तमानप्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां बन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते । १ अत्र २४६ पृष्ठगता ७ सख्याका टिप्पणी द्रष्टव्या ।। २ सं० १ ० ०वतीति दे || ३ छा० मुद्रि० अत्र मनुष्यानधि० ॥

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602