Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
२७०
, मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथाः सम्प्रत्युदयस्थानान्यभिधीयन्ते-"पण नव एक्कार छक्वगं उदया" । नायिकाणां पञ्च' 'उदयाः' उदयस्थानानि, तद्यथा- एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् । एतानि सप्रभेदानि प्रागिय वक्तव्यानि ।
तिरश्चां नव उदयस्थानानि, तद्यथा--एकविंशतिः चतुर्विशतिः पञ्चविंशतिः पड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । एतानि एकेन्द्रिय-विकलेन्द्रियसवैक्रिया.ऽवै क्रियतिर्यपञ्चेन्द्रियानधिकृत्य सप्रभेदानि प्रागिव वक्तव्यानि ।
___ मनुष्याणामेकादशोदयस्थानानि, तद्यथा-विंशतिः एकविंशतिः पञ्चविंशतिः षडिवशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च । एतानि च स्वभावस्थमनुष्य-क्रियमनुष्या-ऽऽहारकसंयत-तीर्थ करा-ऽतीर्थकरसयोगि-अयोगिकेवलिनोऽधिकृत्य प्राग्वद् भावनीयानि ।
देवानां षड् उदयम्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः समविंशतिः अष्टाविंशतिः एकोनत्रिंशद् त्रिंशत् । एतान्यपि प्रागेव सप्रपञ्चमुक्तानि, न भूय उच्यन्ते ।।
सम्प्रति सत्तास्थानान्यभिधीयन्ते--"मंता ति पंच एक्कारस चउक्कं" । नैरयिकाणां मत्तास्थानानि त्रीणि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिश्च । एकोननवतिबद्धतीर्थकरनाम्नो मिथ्यात्वं गतस्य नरकेषत्पद्यमानस्यावसेया । त्रिनवतिम्तु न सम्भवनि, तीर्थकरा ऽऽहारकसत्कर्मणो नरकेषत्पादाभावात् ।
तिरश्चां पश्च सत्तास्थानानि, तद्यथा--द्विनवनिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्च । तीर्थकरसम्बन्धीनि क्षपकसम्बन्धीनि च सत्तास्थानानि न सम्भवन्ति, तीर्थकरनाम्नः क्षपकण्याश्च तिर्यश्वभावात् ।
___ मनुष्याणामेकादश सत्तास्थानानि, तद्यथा- विनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः पडशीतिः अशीतिः एकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिः नव अष्टौ च । अष्टसप्ततिम्तु न सम्भवति. मनुष्याणामवश्यं मनुष्यद्विकसम्भवात् ।
देवानां चत्वारि सत्तास्थानानि तद्यथा-त्रिनवतिः द्विनवतिः एकोननवतिः अष्टाशीतिः । शेषाणि तु न सम्भवन्ति, शेपाणि हि कानिचिद् एकेन्द्रियसम्बन्धीनि कानिचित् क्षपकसम्बन्धीनि, ततः कथं तानि देवानां भवितुमर्हन्ति ।
सम्प्रति संवेध उच्यते--नैरयिकस्य तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं वध्नतः पञ्च उदय स्थानानि, तानि चानन्तरमेवोक्तानि । तेषु प्रत्येकं द्वे वें सत्तास्थाने, तद्यथा--द्विनवतिः अष्टा
! सं० १ त० म००७व उदयस्थाना० ॥ २ सं० १ त० म० ०करसयो० ।।

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602