Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
२८० मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं
[ गाथाः पर्याप्त-प्रत्येक स्थिर-शुभ-सुभग सुस्वरा-ऽऽदेय-निर्माण तीर्थकररूपाणां त्रिंशत्प्रकृतीनां बन्धव्यवच्छेदात् शेषाः पविशतिप्रकृतीर्वध्नाति ता अपि तावद् बध्नाति यावदपूर्वकरणाद्धायाश्चरमसमयः, तस्मिश्च समये हास्य-ति-भय-जुगुप्सा बन्धं प्रतीत्य व्यवच्छिद्यन्ते ।। ५८ ।। ततः---
बावीसा एगणं, बंधइ अट्ठारसंतमनियट्टी।
सत्तर सुहमसरागो, सायममोहो सजोगि त्ति ।। ५९ ।। 'अनिवृत्तिः' अनिवृत्तिबादरो द्वाविंशतिप्रकृतीध्नाति । ताश्च तावद् यावदनिवृत्तिबादरसम्परायाद्धायाः सवय या भागा गता भवन्ति, एकोऽवतिष्टते, ततः एकोनम्' एकेकप्रकृत्यूनं बध्नाति तावद् यावदष्टादशान्तम् । एतदुक्तं भवति-तस्मिम् सवय यतमे भागे शेषे पुरुषवेदबन्धव्यवच्छेदात् शेषा एकविंशतिप्रकृतीबध्नानि, ता अपि तावद् यावत् तस्याः शेपीभूताया अद्धायाः सङ्खथे या भागा गता भवन्ति, एकः शिष्यते ततः संज्वलनक्रोधस्यापि बन्धव्यवच्छेदाद् विंशतिप्रकृतीबंध्नाति, ता अपि तावद् यावत् तस्याःशेषीभृताया अद्धायाः सङ्ख्थे या भागा गता भवन्ति, एकोऽवतिष्ठते; ततः संज्वलनमानस्यापि बन्धव्यवच्छेदादेकोनविंशतिप्रकृतीर्वध्नाति, ता अपि तावद् यावत् तस्याः शेषीभूताया अद्धायाः सङ्खये या भागा गता भवन्ति, एकोऽवतिष्ठते, ततः संज्यलमायाया अपि बन्धव्यवच्छेदादष्टादशप्रकृतीबध्नाति, ताश्च तावद् यावदनिवृत्तिबादरसम्परायाद्धायाश्चरमसमयः, तस्मिश्च समये संज्वलनलोभोऽपि बन्धं प्रतीत्य व्यवच्छिद्यते । ततः सूक्ष्मसम्परायः शेषाः सप्तदश प्रकृतीर्वध्नाति, ताश्च तावद् यावत् सूक्ष्मसम्परायाद्धायाश्चरमसमयः; तस्मिश्च' सभये ज्ञानावरणपश्वका-ऽन्तरायपञ्चक दर्शनावरणचतुष्टय-यश:कीति-उच्चगोत्ररूपाः पोडश प्रकृतयो बन्धमधिकृत्य व्यवच्छिद्यन्ते । ततः “सायममोहो सजोगि' त्ति 'अमोह' मोहनीयोदयरहितः सातमेव के बध्नाति, स च तावद् यावत 'सयोगी सयोग्यवस्थाचरमसमय इत्यर्थः । इदमुक्तं भवति-उपशान्तमोहः क्षीणमोहः सयोगकेवली च सातमकं बध्याति । अयोगिकेवली त्वेकस्यापि बन्धहेतोरभावाद् न किमपि वध्नातीति ।।५९।।
एसो उ बधसामित्त ओघो गइयाइएसु वि तहेव ।।
ओहाओ साहिन्जा, जत्थ जहा पगडिसम्भावो ॥ ३० ॥ योऽयमनन्तरं प्राग मिथ्यादृष्टयादिषु सयोगिकेलिपर्यन्तेषु बन्धभेद उक्त प्य बन्धवामित्वोघ उच्यते । अस्माद् 'ओघात्' ओघभणितप्रकाराद् ‘गत्यादिष्वपि' चतुर्दशसु मार्गणास्थानेषु 'यत्र' मार्गणास्थाने 'यथा' येन प्रकारेण भवप्रत्ययादिना प्रकृतिसद्भावो घटते तत्र तथा 'साधयेत्' कथयेत् , यथेताः प्रकृतयोऽस्मिन् मार्गणास्थाने बन्धं प्रतीत्य घटन्त इति ।।६०॥
१ स० १ त० म० श्चरमस ॥२ स० १ त०म० °रणान्तरायप ॥३ म० छा० °तओह ग ।

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602