Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 591
________________ मलयगिरिमहर्षिविनिर्मित विवृत्युपेतं [ गाथा करोति। ताश्च किट्टयः परमार्थतोऽनन्ता अपि 'स्थूरजातिभेदापेक्षया द्वादश कल्प्यन्ते । एकैकस्य च कषायस्य तिस्रस्तिस्रः, तद्यथा - प्रथमा द्वितीया तृतीया च । एवं क्रोधेन क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यम् | यदा तु मानेन प्रतिपद्यते, तदा उद्वलनविधिना क्रोधे क्षपिते सति त्रयाण पूर्वक्रमेण नव किट्टीः करोति । मायया चेत् प्रतिपन्नस्तर्हि क्रोध - मानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण पट् किट्टीः करोति । यदि पुनर्लोभेन प्रतिपद्यते तत उद्बलन विधिना क्रोधादित्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति । एप किट्टीकरणविधिः । किट्टीकरणाद्वायां निष्ठितायां क्रोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथम स्थितिं करोति वेदयते च तावद् यावत् समयाधिकावलिकामात्रं शेषः । ततोऽनन्तरसमये द्वितीयकिट्टी लिकं द्वितीयस्थितिगतमाकृष्य प्रथम' स्थितिं करोति वेदयते च तावद् यावत् समयाधिकाचलिकामात्र शेषः । ततोऽनन्तरसमये तृतीयकिदिलिकं द्वितीयस्थितिगतमाकृष्य प्रथम 'स्थितिं करोति वेदयते च तावद् यावत् समयाधिकावलिकामात्र शेषः । तिसृष्वपि चामृषु किट्टिवेदनाद्धासू परितन स्थितिगतं दलिकं गुणसङ्क्रमेणापि प्रतिसमयमसङ्ख्ये यगुणवृद्धिलक्षणेन संज्वलनमाने प्रक्षिपति । तृतीयकिट्टिवेदनाद्वायाश्च चरमसमये संज्वलनक्रोधस्य बन्ध-उदय- उदीरणानां युगपद् व्यवच्छेदः, सत्कर्माऽपि च तस्य समयोनावलिकाद्विकबद्धं मुक्त्वा अन्यद् नास्ति, सर्वस्य माने प्रक्षिप्तत्वात् । ततोऽनन्तरसमये मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथम स्थिति करोति वेदयते च तावद् यावदन्तमुहूर्तम् । क्रोध' स्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य सम्बन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसङ्क्रमेण सङ्क्रमयन् चरमसमये सर्वसङ्क्रमेण सङ्क्रमयति । मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं वेद्यमानं समयाधिकावलिकाशेषं जातम् । ततोऽनन्तरसमये मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद् यावत् समयाधिकावलिकामात्र शेषः । ततोऽनन्तरसमये तृतीयकट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद् यावत् समयाधिकावलिकामात्रं शेषः । तस्मिन्नेव च समये मानस्य बन्ध-उदय- उदीरणानां युगपद् व्यवच्छेदः, सत्कर्माऽपि च तस्य समयोनावलिकाद्विकमेव, शेषस्य, मायायां प्रक्षिप्तवात् । ततो मायायाः प्रथमकिट्टिदलिकं द्वितीय स्थितिगतमाकृष्य प्रथम स्थिति करोति वेदयते च तावद् यावदन्तर्मुहूर्तम् । मानस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य सम्बन्धि दलि समयोनावलिकाद्विकमात्रेण कालेन गुणसङ्क्रमेण मायायां प्रक्षिपति । मायाया अपि च प्रथमकिट्टि - २१८ १ सं १ ० प्र० स्थूलजा० ॥ २० छा० म० स्थितिगत क० ।। ३-४-५० म० स्थितिगतं क० ॥ ६ सं० त० १म० ०धस्य च ।। ७ से १ त० म० ० चरमसः ।

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602