Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 596
________________ चन्द्रर्षिमहत्तर कृतं सप्ततिका प्रकरणम् 'नव 'नाम' इत्युक्तं ततस्ता एव नव नामप्रकृतीदर्शयति- मणुयगइ जाइ तस बायरं च पज्जत्तसुभग माइज्ज' । जसकित्ती तित्थयरं, नामस्स हवंति नव एया ।। ६७ ।। गतार्था ।। ६७ ।। अत्रैव मतान्तरं दर्शयति- ६४-६९ ] तच्चाणुपुव्विसहिया, तेरस भवसिद्धियस्स चरिमम्मि | संतं सगमुक्कसं, जहन्नयं बारस हवंति ॥ ६८ ॥ ३०३ तृतीयानुपूर्वी - मनुष्यानुपूर्वी तया सहितास्ता एव द्वादश प्रकृतयस्त्रयोदश सत्यः 'भवसिद्धिकस्य' तद्भवमोक्षगामिनः "संतं सग" त्ति सत्कर्म उत्कृष्टं भवति । जघन्यं पुनर्द्वादश प्रकृतयो भवन्ति । ताश्च द्वादश प्रकृतयस्ता एव त्रयोदश तीर्थकरनामरहिता वेदितव्याः ||६८ || अथ कस्मात्ते एवमिच्छन्ति ? इत्यत आह मणुयगइ सहगयाओ, भवखित्तविवा 'गजीववाग ति । वेयणियन्नयरुच्चं च चरिम भवियस्स खीयंति ॥ ६६ ॥ मनुजगत्या सह गताः - स्थिता मनुजगति सहगताः, मनुष्यगत्या सह यासामुदयस्ता मनुजगतिसहगता इत्यर्थः । किंविशिष्टास्ताः ? इत्याह - " भवखित्तविवागजीववाग" त्ति भवविपाकाः क्षेत्रविपाका, जीवविपाकाश्च । तत्र भवविपाका मनुष्यायुः, क्षेत्रविपाका मनुष्यानुपूर्वी, शेषा नव जीवविपाकाः, तथाऽन्यतरद् वेदनीयम् उच्चैर्गोत्रं च, सर्वसङ्ख्यया त्रयोदश प्रकृतयः “भविकस्य " भवसिद्धिकस्य चरमे समये क्षीयन्ते, न द्विचरमसमये । ततश्वरमसमये भवसिद्धिकस्योत्कृष्टं सत्कर्म त्रयोदश प्रकृतयो जघन्यतो द्वादश भवन्तीति । अन्ये पुनराहुः - मनुष्यानुपूर्व्या द्विचरमसमय एव व्यवच्छेदः, उदयाभावात् । उदयवतीनां हि स्तिबुकसङ्क्रमाभावात् स्वस्वरूपेण चरमसमये दलिकं दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः । आनुपूर्वीनाम्नां * तु चतुर्णामपि क्षेत्रविपातिया भवापान्तरालगतावेवोदय:, तेन न भवस्थस्य तदुदयसम्भवः तदसम्भवाच्चायोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेद इति । एतदेव मतमधिकृत्य प्राग् द्विचरमसमये सप्तचत्वारिंशत्प्रकृतीनां सत्ताव्यवच्छेदो दर्शितः । चरमसमये तू कतो द्वादशानां जघन्यत एकादशानामिति । ततोऽनन्तरसमये कोशबन्धमोक्षलक्षण सहकारिसमुत्थस्वभावविशेषाद् एरण्डफलमिव भगवानपि कर्मसम्बन्धविमोक्षलक्षण सहकारिसमुत्थस्वभाव १ सं० १ ० म० नामा '३' । २ स० सं० २ छा० ०म एज्जं ॥ ३ म० ०गजियविवागाओ ।। ४ सं० १ ० २ ० म० व्मभवसि० ॥ ५ ० १ ०कं गृह्यत एवे० ।। ६ सं०१ त० म० ०म्नां चतुः ॥ ७ सं० १ ० म० तूत्कृष्टतो ॥

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602