Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 597
________________ ३०४ मलयगिरिमहार्षिविनिर्मित विवृत्युपेतं [ गाथाविशेषाद् ऊर्ध्व लोकान्ते गच्छति । स चोर्ध्व गच्छन् ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावतः प्रदेशानूर्वमप्यवगाहमानो विवक्षितसमयाच्चान्यत् समयान्तरमस्पृशन् गच्छति । उक्तं चावश्यकचूौँ__ 'जत्तिए जीवोऽवगाढो तावड्याए ओगाहणाए उडु उज्जुगं गच्छड, न वंक, बीयं च समयं न फुसइ ।। (प्रथ० भा० पत्र ५८३ ) इति ।। इत्थं चानेके भगवन्तः कर्मक्षयं कृत्वा तत्र गताः सन्तः सिद्धिसुच शाश्वतं कालमनुभवन्तोऽवतिष्ठन्ते ।। ६९ ।। तथा चाह-- अह सुइयसयलजगसिहरमरुयलिरुवमसहावसिडिसुहं । अनिहणमव्वाबाह, तिरयणसारं अणहरति ।। ७० ।। 'अथ' इत्यानन्तर्ये, कर्मक्षयादनन्तरं 'शुचिकं' एकान्तशुद्धम् , न रागादिदोपव्यामिश्रम् , तथा 'सकलं' संपूर्णम् , तथा 'जगच्छिखरं' सकलसांसारिकलोकसम्भविसुखनिकुरम्बशेखरभूतम् , कथम् ? इति चेद् अत आह–'अरुज' लेशतोऽपि तत्र व्याधेरभावान् , उपलक्षणमेतत्, तत आधेरप्यभावस्तत्र द्रष्टव्यः, सांसारिकं च सुखमाधि-व्याधिसङ्कुलम् । तथा निरुपर्व' उपमातीतम् , नहि तत्सदृशं किश्चिदपीह संसारेऽस्ति सुखं येन तदुपमीयते तस्माद् निरुपमम् । तथा "सहाय" त्ति स्वभावभूतम् , न संसारसुखमिव कृत्रिमम् , अतस्तत् सकलदेवा-ऽसुर-मनुजसम्भविसुखसमूहशेखरकल्पम् । इत्थम्भूतं सिद्धिसुखं' मोक्षसुखं 'अनिधनम्' अपर्यवमानम् , कथमपर्यवसानता ? इति चेद् अत आह-~'अव्यानाध' व्यावाधारहिम् बाधयितुमशक्यमिति भावः । तथाहि-रागादयस्तत् सुखं बाधयितुमीशाः, ते च सर्वात्मना क्षीणाः; न च क्षीणा अपि पुनः प्रादुर्भावमश्यते, तत्कारणकर्मपदलानामभावान ; न च तेऽपि पुद्गला भूयोऽपि बध्यन्ते, संक्लेशमन्तरेण तद्न्धाभावाद , न च समात्मना रागादिक्लेशविमुक्तस्य भूयः संकोशोत्थानम् , तत्कारणकर्म पुद्गलाभावात् । अतो रागादिसंक्लेशोत्थानाभावात् सिद्धिसुखमव्यायाधम् । पुनः तत् कथम्मतम् ? इत्याह- 'त्रिरत्नसारं त्रीणि रत्नानिसन्यग्दर्शन ज्ञान-चारित्रलक्षणानि तेषां सारं-फलम् । तथाहि-सम्यग्दर्शन-ज्ञान चारित्राण्येव कर्मक्षयकाम् , कर्मक्षयाञ्च सिद्धिसुखसम्प्राप्तिः, अतः सिद्धिसुखं त्रिरत्नसारम् । एतेन १ यावलि जीवाऽवगाढः तावत्या अवगाहनया ऊधं नुक गच्छति न बकम, द्वितायं च समयं न स्पृशति ।।२स १ त०म० ०वादिति सि ।।

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602