Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
६६-७२ ] मलयगिरिमहषिविनिर्मितविवृत्युपेतं
३०५ किमुक्तं भवति ?--इत्थम्भूतं सिद्धिसुखमभिलपताऽवश्यं रत्नत्रये प्रेक्षावता यत्न आस्थेयः, उपायमन्तरेणोपेयसिद्धयमंभवात | उपायभृतं च सिद्धिसुखस्य रत्नत्रयम् , कर्मक्षयकारणत्वात् । तथाहि-अज्ञानादिनिमित्तं कर्म, अज्ञानादिप्रतिपन्थि च ज्ञानादि, ततोऽवश्यं ज्ञानाद्यासेवायां कर्मक्षय इति । इत्थम्भूतं सिद्धिसुखं तत्र गताः सन्तः 'अनुभवन्ति' वेदयन्ते ।। ७० ।।
इह बन्धोदयसत्कर्मणां संवेधश्चिन्तितः । सोऽपि सामान्येन, ततो बन्धोदयसत्कर्मसु विशेषजिज्ञासायामतिदेशमाह
दुरहिगम-नि उण परमत्थ-रुइर बहुभंगदिट्ठिवायाओ।
अत्था अणुसरियव्वा, बंधोदयसंतकम्माणं ॥ ७१ ।। दुःखेन--महता कष्टेन प्रमाण-नय निक्षेपादिभिरधिगम्यत इति दुरधिगमः, निपुणः सूक्ष्मबुद्धिगम्यः, परमार्थः-यथावस्थितार्थः, रुचिरः सूक्ष्मसूक्ष्मतरार्थभेत्तपटुप्रज्ञानां मनःप्रहलादकरः, बहुभङ्ग:-बहुवि कल्पो यो दृष्टिवादस्तस्माद् बन्धोदयसत्कर्मणां विषये 'अर्थाः' विशेषरूपाः 'अनुसर्तव्याः' ज्ञातव्याः । इह तु संक्षिप्तरुचिसत्त्वानुग्रहप्रवृत्ततया ग्रन्थगौरवमयाद् नोच्यन्ते ॥७१।।
सम्प्रत्याचार्योऽनुद्धतत्वेनात्मनोऽल्पागमत्वं ख्यापयन् शेषबहुश्रुतानां च बहुमानं प्रकटयन् प्रकरणपरिपूर्णताविधिविषये तेषां प्रार्थनां विदधान आह
जो जत्थ अपडिपुन्नो, अत्यो अप्पागमेण बडो त्ति । तं खमिऊण बहुसुया, पूरेऊणं परिकहंतु ॥ ७२ ।।
अत्र सप्ततिकाख्ये प्रकरणे 'यत्र' बन्धे उदये सत्तायां वा योऽर्थः 'अपरिपूर्णः' खण्डः 'अल्पागमेन' अल्पश्रुतेन मया 'बद्धः' निबद्धः, इतिशब्दः समाप्तिवचनः, स च गाथापर्यन्ते वेदितव्यः । 'तम्' अपरिपूर्णमर्थ तत्र बन्धादौ ममाऽपरिपूर्णार्थाभिधानलक्षणमपराधं क्षमित्वा 'बहुश्रुताः' दृष्टिवादज्ञाः ‘पूरयित्वा' तत्तदर्थप्रतिपादिकां गार्थी प्रक्षिप्य शिष्यजनेभ्यः ‘परिकथयन्तु' सामस्त्येन प्रतिपादयन्तु । बहुश्रुता हि परिपूर्णज्ञानसम्भारसम्पत्समन्विततया परोपकारकरणेकरसि कमानसा भवन्ति, ततो मम शिष्याणां च परमुपकारमाधित्सवस्तेऽवश्यं ममास्फुटापरिपूर्णार्थाभिधानलक्षणमपराधं विषह्य परिपूर्णमर्थ पूरयित्वा शिष्येभ्यः कथयन्तु ॥ ७२ ।।
१ सं० १ त० छा० १२ः-सूक्ष्मतरा०॥ २ सं० छा० रार्थः तत्र पटु० । त० म० गर्थभेदपटु० ॥३ सं० सं० २ छा० ०कल्पो ६० ।। ४ सं० सं० २ छा० ०त्र तत्र बन्धा०॥ ४ छा० क्षमयित्वा ।। ६०१ त० म० नसारसं० ।। ७०१ त०म० ०कमनसो म० ॥

Page Navigation
1 ... 596 597 598 599 600 601 602